________________
१५२
कादम्बरो
सरसि विकच-पुण्डरीक सिते चन्द्रिका-जलपान-लोभादवतीर्णो निश्चलमूतिरमृतपङ्कलग्न इवाऽदृश्यत हरिणः । तिमिर-जलधर-समयापगमानन्तरम् अभिनव-सित-सिन्दुवार-कुसुम-पाण्डुरेरणवागतैरवगाह्यन्त हंसरिव कुमुद-सरांसि चन्द्रपादैः । विगलितसकलोदयरागं रजनिकर-बिम्बमम्बरापगावगाह-धौत-सिन्दूरमरावत-कुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैः शनैश्च दूरोदिते भगवति हिमतीतस्रोत, सुधाधल-पटलनेव धवलाकृत चन्द्रातपन जगात, अवश्यायजलबिन्दु
इति लोकप्रवादः । हंसधवला हंसः ( मरालः ) इव धवला ( शुभ्रवर्णा ) ज्योत्स्ना = चन्द्रिका । चन्द्राभरणभृतः, तारकाकपालेत्यादि: =तारकाः ( नक्षत्राणि) इव यानि कपालशकलानि, तैः अलङ्कृतात् । व्यम्बकोत्तमाऽङ्गात् = त्र्यम्बकस्य (शङ्करस्य) उत्तमाऽङ्गात् (शिरसः ) सागरान् आपूरयन्ती-स्वजलेन परिपूर्णान् विदधती, हंसधवला, गङ्गा - जाह्नवी, इव, धरायां = पृथिव्याम्, अपतत् = पतितवती । अत्र पूर्णोपमाऽलङ्कारः ।।
हिमकरसरसीति । विकचपुण्डरीकसिते = विकचं ( प्रफुल्लम् ) यत् पुण्डरीकं ( श्वेतकमलम् ) तदिव सितम् ( शुभ्रम् )। हिमकरसरसि = हिमकरः (चन्द्रः ) एव सरः (कासारः ) तस्मिन् । चन्द्रिकाजलपानलोमात् = चन्द्रिका (ज्योत्स्ना) एव जलं ( सलिलम् ) तस्य पानं (घयनम् ) तस्मिन् लोमः ( लोलुपत्वम् ) तस्मात् । अवतीर्णः = कृताऽवतरणः, मध्यप्रविष्ट इति भावः । निश्चलमूर्तिः निश्चला (स्थिरा) मूर्तिः ( शरीरम् ) यस्य सः । अमृतपङ्कलग्न: अमृतम् (सुधा) एव पङ्कः ( कर्दमः ) तस्मिन् लग्नः ( सम्बद्धः ) इव, हरिणः = मृगः, अदृश्यत = अलक्ष्यत । अत्र रूपकमुत्प्रेक्षा च द्वयोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः ।
तिमिरेत्यादिः । तिमिरम् ( अन्धकारः ) एव जलधरसमयः ( वर्षाकालः ) कृष्णत्वसाम्याद्रूपकमेतत् । तस्य अपगमः ( निवृत्तिः ) तदनन्तरम् ( तदनु )। अभिनवेत्यादिः = अभिनवानि ( नूतनानि ) सितानि ( शुक्लानि ) यानि सिन्दुवारकुसुमानि (निर्गुण्डीपुष्पाणि ) तानि इव पाण्डुराः (शुभ्राः ), तैः । अर्णवागत:=जलाशयाऽऽयातः, अर्णवशब्दो यद्यपि योगरूढया समुद्रवाचकस्तथाऽप्यत्र योगशक्त्या जलाशयवाचकः । हंसः= मरालः, इव, चन्द्र पादैः= इन्द्रकिरणः, कुमुदसरांसि= कैरवप्रचुरकासाराः, अवगाह्यन्त = आलोड्यन्त, चन्द्रपादपक्षे अस्पृश्यन्त । अत्रोपमाऽलङ्कारः ।
विगलितेति । विगलितः ( विलयं प्राप्तः ) सकल: ( समस्तः ) उदयरागः ( उद्गमनसमयलोहित्यम् ) यस्मिस्तत् । तादृशं रजनिकरविम्बम् = चन्द्रमण्डलम्, अम्बरापगेत्यादिः = अम्बरापगा ( आकाशगङ्गा) तस्याम् अवगाहः ( स्नानम् ) तेन धौतं (क्षालितम् ) सिन्दूरं (नागसम्भवम् ) यस्य तत्, तादृशम्, ऐरावतकुम्भस्थलम् = ऐरावतस्य ( इन्द्रहस्तिनः ) कुम्भस्थलम् ( मस्तकपिण्ड:) इव, वर्तुलत्वस्योर्ध्वत्वस्य च साम्यादिति भावः । तत्क्षणं = तत्कालम्, अलक्ष्यत = अदृश्यत ।
शनैः शनैरिति । शनैः शनैः = मन्दमन्दम् । भगवति = ऐश्वर्यसम्पन्ने, हिमततिनुते = हिमतति ( तुहिनपङ्क्तिम् ) स्रवतीति हिमततिस्रुत् तस्मिन्, तुहिनपरम्परास्राविणि, चन्द्रमसीत्यर्थः । दूरोदिते = विप्रकृष्टप्राप्ते सति सुधाधूलिपटलेन = अमृतपांमुसमूहेन, इव, चन्द्रातपेन = इन्दुप्रकाशेन, जगति =
खण्डोंसे अलङकृत शिवजीके शिरसे समुद्रोंको पूर्ण करती हुई हंसोंसे उज्ज्वल गङ्गाजीके समान पृथ्वीपर पड़ गई। विकसित श्वेत कमलके समान, सफेद चन्द्ररूप तालाबमें निश्चल शरीरवाला मृग ( कलङ्कः) मानों चन्द्रिकाके जलपानके लोभसे अवतीर्ण होकर अमृत पङ्कमें लगा हुआ-सा दिखाई दिया। अन्धकाररूप वर्षाऋतुके जाने के अनन्तर नये और सफेद निर्गुण्डाके फूलोंके समान श्वेत वर्णवाले चन्द्र किरणोंने जलाशयसे आये हुए हंसांके सदृश कुमुदोंसे पूर्ण तालाबोंमें अवगाहन किया। जिनकी उदयकालकी समस्त लालिमा दूर हो गई है ऐसा चन्द्र मण्डल, आकाशमण्डलमें स्नान करनेसे धोये गये सिन्दूरवाल ऐरावत हाथीके कुम्भम्थल के समान उस समय दीख पड़ा। धीरे धीरे हिम पङ्क्तिको बहानेवाले भगवान् चन्द्रमाके दूर प्रदेशमें उगने पर चन्द्रमा प्रकाशसे