________________
कथामुखे—शुकस्यवणनम्
१४५
इत्येवमादिकमस्मत्संबद्धमालापमाकर्ण्य किञ्चिदुपजात - कुतूहलो भगवान् जाबालि - रीषदावलितकन्धरः पुण्यजलैः प्रक्षालयन्निव मामतिप्रशान्तया दृष्ट्या दृष्ट्वा सुचिरमुपजातप्रत्यभिज्ञान इव पुनः पुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते' इत्यवोचत् ।
स हि भगवान् कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति, वेत्ति च जन्मान्तराण्यप्यतीतानि कथयत्यागामिनमप्यर्थम्, ईक्षण-गोचरगतानाञ्च प्राणिनामायुषः संख्यामावेदयति ।
ततः सर्वैव सा तापस-परिषच्छ्रुत्वा विदित-तत्प्रभावा ' कीदृशोऽनेनाविनयः कृतः, किमर्थं धारयतु = दधातु । हि = यस्मात् कारणात्, अनाथपरिपालनम् = अशरणसंरक्षणम्, अस्मद्विधानाम् = अस्मादृशानां तपस्विनामिति भावः । धर्मः = आचारः । उद्भिन्नपक्षतिः = उद्भिन्ने ( अभ्युद्गते ) पक्षती ( पक्षमूले ) यस्य सः तादृशः, तु, गगनतलसंचरणसमर्थः = गगनतले ( आकाशतले ) यत् संचरणं ( संचार: ) तस्मिन् समर्थ : ( शक्तः ) सन्, यत्र = यस्मिन् स्थाने, अस्मै = शुकशावकाय, रुचधातोर्योगे " रुच्यर्थानां प्रीयमाण" इति सम्प्रदानत्वाच्चतुर्थी । रोचिष्यते = रुचि: ( स्पृहा ) उत्पत्स्यते, तत्रेति शेषः । यास्यति = प्राप्स्यति ।
इहैवेति । वा = अथवा, इह = अस्मिन्, आश्रमे, एव, उपजातपरिचयः = उपजात : ( उत्पन्नः ) परिचय: ( संस्तवः अस्माभिरिति शेषः ) स्थास्यति = स्थिति करिष्यति । इत्येवम् = इत्यादिकम्, अस्मत्सम्बद्धं = मत्सम्बन्धविषयकम्, आलापम् = आभाषणम्, आकर्ण्य = श्रुत्वा, किञ्चित् = ईषत्, उपजातकुतूहलः = उत्पन्न कौतुकः, भगवान् = ऐश्वर्यसम्पन्नः, जाबालि = तन्नामा ऋषिः, ईषत् = किञ्चित्, आवलितकन्धरः = आवलिता ( परिवर्तिता) कन्धरा ( ग्रीवा ) यस्य सः । तादृशः सन्, पुण्यजलैः = पवित्रसलिलैः, मां, प्रक्षालयन् इव = प्रधावयन् इव, उत्प्रेक्षालङ्कारः | अतिप्रशान्तया = अतिशय शान्तियुक्तया दृष्टया = नयनेन, सुचिरं बहुकालपर्यन्तं दृष्ट्वा - विलोक्य, उपाजातप्रत्यभिज्ञान:उपजातम् ( उत्पन्नम् ) प्रत्यभिज्ञानं ( तत्ते दन्ताऽवगाहि ज्ञानं, "सोऽयं देवदत्त" इत्याकारकम् इव ) यस्य सः । तादृश इव । पुनः पुनः = भूयोभूयः । विलोक्य = दृष्ट्वा, अनेन = निकटवर्तिना, शुकशावकेन, स्वस्य = आत्मनः, एव, अविनयस्य = अशिष्टाचारस्य, फलं = भोगः, अनुभूयते = उपभुज्यते । इति = एवम्, अवोचत् = अवदत् ।
स हीति । हि = यतः, सः = पूर्वोक्तः, भगवान् = ऐश्वर्यसम्पन्नः, जाबालिमहर्षिः, कालत्रयदर्शी = भूतभवद्भविष्यत्समयद्रष्टा सन् तपःप्रभावात् = तपस्यासामर्थ्यात् दिव्येन = अलौकिकेन, चक्षुषा = नेत्रेण, सर्वं = सकलम्, एव, जगत् = लोकं करतलगतं = हस्ततलप्राप्तम्, इव, अवलोकयति = पश्यति । अतीतानि = पुरा भूतानि जन्मान्तराणि = अन्यानि जन्मानि वेत्ति = जानाति । आगामिनं = भाविनम्, अपि, अर्थ = पदार्थ, कथयति = प्रतिपादयति । ईक्षणगोचरगतानां = नेत्रविषयप्राप्तानां प्राणिनां = जीवानाम्, आयुषः = जीवितकालस्य, संख्यां = परिमितिम्, आवेदयति = ज्ञापयति ।
सर्वेवेति । श्रुत्वा = आकर्ण्य, जाबालिवचनमिति शेषः । विदिततत्प्रभावा = विदित: ( ज्ञातः ) उत्पन्न होनेसे यहीँपर रहेगा।" इत्यादि मुझसे सम्बद्ध बातचीत सुनकर भगवान् जाबालिको कुछ कुतूहल हुआ । उन्होंने गरदनको कुछ मोड़कर अत्यन्त शान्त दृष्टिसे मानों मुझको पुण्यजलसे प्रक्षालन करते हुए बहुत समयतक देखकर मानों पूर्वज्ञान उत्पन्न हो गया हो, वारंवार देखकर - " अपने ही अशिष्ट आचारका फल यह अनुभव कर रहा है ।" ऐसा कहा । भूत भविष्यत् और वर्तमान तीन कालोको देखनेवाले भगवान् ( जाबालि ) तपस्या के प्रभाव के दिव्य दृष्टि से समस्त जगत् को हथेली में रखे हुए के समान देख लेते हैं । ये अन्य जन्मों के बीते हुए वृत्तान्तोंको जानते हैं । ( ये ) आनेवाले विषयको भी कहते हैं । ( ये ) नेत्रोंसे देखे गये प्राणियोंकी आयुकी संख्या बता देते हैं । जाबालिके प्रभावको जाननेवाली वह सभी तपस्वियोंकी सभा “इस ( शुकशावक ) ने कैसा अविनय (अशिष्ट
१० का०