________________
१४६
कादम्बरी
वा कृतः, क वा कृतः, जन्मान्तरे वा कोऽयमासीत्' इति कौतूहलिन्यभवत्, उपनाथितवती च तं भगवन्तम्-‘आवेदय प्रसोद भगवन् ! कीदृशस्याविनयस्य फलमनेनानुभूयते, विहगजातो वा कथमस्य सम्भवः, किमभिधानो वाऽयम् अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान् प्रभवः ।'
=
`इत्येवमुपयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रत्यवदत् - ' अतिमहदिदमाश्चर्य्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति देवाच्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः सर्व एव तावदाचरन्तु यथोचितं दिवस व्यापारम् । अपराह्णसमये भवतां पुनः कृत-मूलफलाशनानां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि । तत्प्रभाव: ( जाबालिसामथ्यंम् ) यया सा । सर्वा = सकला, एव सा = पूर्वोक्ता, तापसपरिषत् = तपस्विसभा, अनेन = शुकशावकेन कीदृशः = किविधः, अविनयः = अशिष्टाचारः कृतः = विहितः, किमर्थं किप्रयोजनं वा । क्व = कुत्र देशे, वा, कृतः = विहितः । वा = अथवा, जन्मान्तरे : अन्यस्मिन् जन्मनि, इतः पूर्वजन्मनीति भाव: । अयं = निकटस्थः, शुक्रः, क: = किंजात्युत्पन्नः आसीत्= अभवत्, इति = एवं कौतूहलिनी = कौतुकयुक्ता, अभवत् = अभूत् । तं = पूर्वोक्तं, भगवन्तम् = = ऐश्वर्यंसम्पन्नं, जाबालि महर्षिम्, उपनाथितवती च = प्रार्थितवती च उपनाथनप्रकारानाह - आवेदयेति । भगवन् = हे प्रभो ! आवेदय = ज्ञापय, अस्मानिति शेषः । प्रसीद = प्रसन्नो भव । अनेन = शुकशावकेन, कीदृशस्य = किंविधस्य, अविनयस्य = अशिष्टाचारस्य फलं = मोगः, अनुभूयते = निर्विश्यते । अयं = शुकशिशु जन्मान्तरे पूर्वजन्मनिः कः = विजातीयः आसीत् - अभूत् । वा = अथवा, विहगजाती = पक्षिजातो, अस्य = शुकशिशोः, कथं = केन प्रकारेण संभवः = उत्पत्तिः, जात इति शेषः । वा = अथवा, अयं = शुकशिशुः किमभिधानः = किनामा, किम् अभिधानं ( नाम ) यस्य सः | अस्तीति शेषः । नः = अस्माकं कुतूहलं = कौतुकम् अपनयतु = दूरीकरोतु भवानिति शेषः । हि = यतः, सर्वेषां = समस्तानाम्, आश्चर्याणां = विस्मयविषयाणां, भगवान् = ऐश्वर्यसम्पन्नः, भवान्, प्रभवः = उत्पत्तिकारणम्, अद्भुताऽथंज्ञापनकारणमिति भाव: ।
=
इत्येवमिति । तपोधनपरिषदा = तपस्विसमया, तपस्विमण्डलस्थैर्जनैरिति भावः । इत्येवम्: अनेन प्रकारेण, उपयाच्यमानः = प्रार्थ्यमानः सः = पूर्वोक्तः, महामुनिः = महर्षिः, जाबालि:, प्रत्यवदत् : प्रत्यब्रवीत् इदम् आश्चर्यं = विस्मयोत्पादकवृत्तम्, अतिमहत् = अतिप्रचुरम्, आख्यातव्यं = कथनीयम् । अहः = दिनम्, अल्पशेषं = स्तोकाऽवशिष्टम् । नः = अस्माकं स्नानसमय: = मज्जनकाल:, प्रत्यासीदति = उपस्थितो भवति । भवताम् = युष्माकम् अपि देवाऽचंनविधिवेला = देवाऽर्चनविधेः ( सुरपूजनविधानस्य ) वेला ( काल: ), अतिक्रामति = व्यत्येति । तत् = तस्मात्कारणात् । भवन्तः, उत्तिष्ठन्तु : = उत्थानं कुर्वन्तु । सर्वे = सकलाः एव दिवसव्यापारं = वासरकृत्यं, यथोचितं = यथायोग्यम्, आचरन्तु = कुर्वन्तु । अपराह्नसमये = प्रहरद्वयाऽनन्तर वर्तिकाले, पुनः = मूयः, कृतमूलफलाऽशनानां = कृतं ( विहितम् ) मूलफलयोः ( शूरणादि --सस्ययोः ) अशनं ( भक्षणम् ) यस्तेषाम् ।
=
आचार) किया, किसलिए अथवा कहां किया ? यह पूर्व जन्ममें कौन था ? इस बातको जाननेके लिए कुतूहल से युक्त हो गई और उसने भगवान् ( जाबालि ) से प्रार्थना की " - भगवन् ! प्रसन्न हों, बतलायें कि कैसे अविनयका फल यह अनुभव कर रहा है ? यह पूर्व जन्म में कौन था ? अथवा पक्षिजातिमें इसकी उत्पत्ति कैसे हुई ? इसका क्या नाम है ? आप हमारे कौतूहलको हटा दें, क्योंकि सद आश्चर्योंके भगवान् कारण हैं ।
त परियों की सभासे इस प्रकारसे प्रार्थना किये गये उन महामुनिने उत्तर दिया--यह आश्चर्यका उत्पादक वृत्तान्त अधिक रूपसे कहनेका योग्य है। दिन थोड़ा-सा बाकी है। हमलोगोंका स्नानका समय आ रहा है । आपलोगोंको भी देवताओंकी पूजाका समय बीत रहा है। इस कारण आपलोग उठें। सभीलोग दिनके कार्यको यथायोग्य कर लें । अपराह्नकाल ( दिनके तीसरे प्रहर ) में फल मूलको खाये हुए और विश्वरत होकर बैठे हुए