________________
१४४
कादम्बरी
एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तानब्रवीत्-'अयं मया स्नातुमितो गतेन कमलिनीसरस्तीर-तरु-नीड-पतितः शुक-शिशुरातपजनित-क्लान्तिरुत्तप्तपांसुपटल-मध्यगतो दूर-निपतन-विह्वल-तनुरल्पावशेषायुरासादितः, तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः। तद्यावदयमप्ररूढपक्षतिरक्षमोऽन्तरिक्षमुत्पतितुम्, तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकरस्माभिश्चोपनातेन नीवार-कण-निकरेण विविधफलरसेन च संवर्द्धयमानो धारयतु जीवितम् । अनाथ-परिपालनं हि धर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतलसञ्चरणसमर्थो यास्यति यत्रास्मै रोचिष्यते। इहैववोपजात-परिचयः स्थास्यति ।'
स्थापयित्वा = निधाय, हारीतः= जाबालिपुत्रस्तन्नामा मुनिः, पितुः =जनकस्य जाबालिमुनेः, पादौ= चरणौ, उपगृह्य = समति भावः, कृताऽभिवादनः= विहितप्रणतिः, पितुः= जनकस्य, अनतिसमीपवर्तिनि-नाऽतिनिकदवातनि, कियदूरस्थ इति भावः । कुशासने = दर्भविष्ट रे, समुपाविशत्-समुपविष्टः ।
आलोक्यति । पाम्, आलोक्य = दृष्ट्वा, तु, सर्वे=समस्ताः, एव, मुनयः= तापसाः, अयं = निकटस्थः, गुरुशिश = कीरशावकः, कुतः = कस्मात् स्थानात्, आसादितः =प्राप्तः, इति = एवम्, आसीनं षष्ठां तं हारीतम्, अपृच्छन् = पृष्टवन्तः ।
असाविति । असौहारोतः, तु, तान् = मुनीन्, अब्रवीत् = अवदत् । स्नातुं निमज्जितुम्, इतः = अस्मात् स्थातुनात्, गतेन =प्राप्तेन, मया, कमलिनीत्यादिः = कमलिनीसरः (पद्मिनीप्रचुरः कासारः ) तस्य तीरतरु: ( तटवृक्षः) तस्मिन् नीड: (कुलायः ) तस्मात् निपतितः ( सस्तः ), आतपजनितक्लान्तिः = आतपेन ( सूर्यद्योतेन ) जनिता ( उत्पन्ना ) क्लान्तिः ( ग्लानिः ) यस्यः सः । उत्तप्तेत्यादि:०= उत्तप्तं ( सन्तप्तम् ) यत् पांसुपटलं (धूलिसमूहः ) तस्य मध्यगत: ( अन्तरप्राप्तः)। दूरेत्यादि: = दूरात् (विप्रकृष्टप्रदेशात् ) यत् निपतनम् (भवच्युतिः) तेन विह्वला (विक्लवा) तनुः ( शरीरम् ) यस्य सः । अल्पाऽवशेषायु:= अल्पम् (स्तोकम् ) अवशेषम् ( शिष्टम् ) आयुः (जीवनकाल: ) यस्य सः । एतादृशः, अयं-सन्निकृष्टवर्ती, शुकशिशुः = कीरशावकः, तस्य =पूर्वोक्तस्य, च, अस्पतेः = शाल्मलीवृक्षस्य, तपस्विदुरारोहतया = तपस्विभिः ( तापस: ) दुरारोहतया ( दुःखेनारोढुं शक्यतया), स्वनीडं - तस्य शुकशावकस्य आत्मकुलायम्, आरोपयितुंस्थापयितुं, न शक्यतेने पार्यते । इति = अस्मात् कारणात्, जातदयेन = उत्पन्नकरुणेन सता, मया, आनीतः=प्रापितः ।
तदिति । तत् = तस्मात्कारणात्, यावत् = यत्कालम्, अप्ररूढपक्षतिः = अप्ररूढे ( अनुत्पन्ने ) पक्षती ( पक्षमूले ) यस्य सः । अतः अन्तरिक्षम् = आकाशम्, उत्पतितुम् = उत्पतनं कर्तुम्, अक्षमः= असमर्थः, तावत् = तत्कालम्, अत्र = अस्मिन्, एव, कस्मिश्चित्-कुत्रचित्, आश्रमतरुकोटरे = मुनिवासवृक्षनिष्कुहे, मुनिकुमारक:=ऋषिबालकः, अस्माभिः, उपनीतेन - समीपप्रापितेन, नीवारकनिकरणमुन्यन्नलवसमूहेन, फलरसेन = सस्यद्रवेण, च, संवर्द्धयमानः = समेध्यमानः सन्, जीवितं = जीवनं,
"कहाँसे इस तोतेके बच्चेको पा लिया” इस प्रकार बैठे हुए उनसे पूछा। उन्होंने उन (मुनियों) को कहा"स्नान करनेके लिए यहाँसे गये हुए मैंने कमलोंसे पूर्ण तालाबके किनारेपर स्थित पेड़के घोंसलेसे गिरे हुए, धूपसे ग्लानिसे युक्त, तपे हुए धूलिपटलके बीचमें रहे हुए, दूरसे गिरनेसे विहल शरीरसे युक्त और अल्पशेष आयुवाले इस तोतेके बच्चेको पाया। तपस्वियोंसे उस पेड़में चढ़ना अशक्य होनेसे इसे उसके घोंसलेमें नहीं रख सकनेसे दयापूर्वक इसे यहाँ लाया हूँ। इसलिए पङ्खोंके उत्पन्न नहीं होनेसे जबतक यह आकाशमें उड़नेके लिए असमर्थ होगा तबतक आश्रमके पेड़के किसी कोटरमें मुनिपुत्र हमलोगोंसे लाये गये नीवार (मुन्यन्न ) कणोंसे और फलके रससे बढ़ा जाता हुआ यह जीवनको धारण करे। क्योंकि अनाथोंका पालन करना हमारे सरीखे जनोंका धर्म है। पंखोंके उगनेपर और आकाशतलमें घूमनेमें समर्थ होकर जहाँ पसन्द हो वहाँ जायेगा। अथवा परिचय