________________
१४०
कादम्बरो पति गन्धवाहः । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजांसि । सर्वतेजस्विनामयञ्चाग्रणीः । द्विसूर्यामिवाभाति जगदनेनाधिष्ठितं महात्मना। निष्कम्पेव क्षितिरेतदवष्टम्भात् । एषप्रवाहः करुणारसस्य, सन्तरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सागरः सन्तोषामृत-रसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरसद्ग्रहकस्य, मूलमपशमतरोः, नाभिः प्रज्ञाचक्रस्य, स्थितिवंशो धर्मध्वजस्य, तीर्थं सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निकषोपल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मन्त्रः क्रोधभुजङ्गस्य,
=घ्राणतर्पणगन्धयक्तः, मन्दमन्दचारी= अतिमन्यरचरणशील:, गन्धवाहः-वायः, सशकः =शासहित: इव, उत्प्रेक्षा । भीत्येति शेषः । तादृशः सन्, अस्य = मुनेः, समीपं = निकटम्, उपसर्पति = उपगच्छति । अस्याश्रमदुकूलवल्कलसंचालनाद्वायो: सशङ्कत्वेनाऽतिमन्थरसंचरणं समुचितमिति भावः ।
प्राय इति । प्रायः = बाहुल्येन, महाभूतानां=पृथिव्यादीनां पञ्चानामपि, बहिरिन्द्रियग्राह्यविशेषगुणत्वं भूतत्वमिति नैयायिकाः । तेजांसि महांसि, दुरभिभवानि = दुःखेनाऽभिमवितुं (पराजेतुम्) शक्यानि भवन्ति । अयं-निकटस्थः, मुनिः । सर्वतेजस्विनां समस्ततेजःसंपन्नानाम्, अग्रणी:-श्रेष्ठः ।
द्विसूर्यमिति । अनेन = समीपस्थितेन, महात्मना = महाऽनुभावेन, अधिष्ठितम् = आश्रितं, जगत् = भुवनं, द्विसूर्य = द्वौ सूयौं ( भास्करौ ) यस्मिस्तत्, सूर्यद्वयसहितम्, इव, आमाति = दीप्यते । उत्प्रेक्षा।
निष्कम्पेति । क्षितिः = पृथिवी। एतदवष्टम्भात् = एतस्य ( अस्य, मुनेः ) अवष्टम्भात् ( आधारात् ), निष्कम्पा = कम्परहिता, इव, स्थिरेति भावः । उत्प्रेक्षाऽलङ्कारः।
एष इति । एष =समीपतरवर्ती, मुनिरिति भावः करुणारसस्य = दयाजलस्य, प्रवाहः= ओघः । रूपकाऽलङ्कार एवं परत्राऽपि । संसारसिन्धो:= भवसागरस्य, संतरणसेतु:=पारगमनालि:, "सेतुराली स्त्रियां पुमान्" इत्यमरः । अयं मुनिस्तत्त्वज्ञानोपदेशेन साधकान् भवसिन्धुपारं नयतीति भावः । अयं क्षमाऽम्भसां= तितिक्षाजलानाम्, आधारः = आश्रयः, अयं, तृष्णालतागहनस्य = तृष्णा ( विषयस्पृहा ) एव लता ( वल्ली) तद्गहनस्य (तद्वनस्य ), परशुः = परश्वधः । रूपकाऽलङ्कारः । “तृष्णे स्पृहापिपासे द्वे" इति “गहनं काननं वनम्" इति चाऽमरः । यथा परशुलतां छिनत्ति तथैवाऽयं तत्त्वोपदेशेन
षयस्पहां छिनत्तीति भावः । अयं सन्तोषाऽमृतरसस्य सन्तोषः ( सन्तुष्टिः, यदृच्छालाभेन परितुष्टिरिति भावः ) एव अमृतरसः (पीयूषद्रवः ), तस्य, सागरः = समुद्रः । सिद्धिमार्गस्य-सिद्धीनाम् ( अणिमादीनाम् ) मार्गस्य (पथः), मुक्तिमार्गस्य वा "उपदेष्टे''ति कृदन्तपदयोगे "कर्तृकर्मणो: कृतिः" इति कर्मणि षष्ठी। उपदेष्टा = उपदेशकः । असद्ग्रहस्य-अशुभग्रहस्य पापग्रहस्येति भावः । अस्तगिरिः= अस्तपर्वतः, पापग्रहस्य निवारणादिति भावः । उपशमतरो:=शान्तिवृक्षस्य, मूलं = बुध्नः, कारणमिति भावः । प्रज्ञाचक्रस्य = बुद्धिचक्रस्य, नाभिः = मध्यभागः । धर्मध्वजस्य = सुकृतपताकायाः, स्थितिवंशः = अवस्थानवेणः, आधार इति भावः । सर्वविद्याऽवताराणां = सकलविद्याप्रवेशानां, तीर्थ = घट्टः, छात्राणां सकलान्वीक्षिक्यादिविद्याप्रवेशहेतुभूतोऽयमिति भावः । लोमाऽर्णवस्य = लिप्सासागरस्य, वडवाऽनल: = वडवाऽग्निः, लोभोपशमहेतुत्वादिति भावः । शास्त्ररत्नानां वेदादिशास्त्रमणीनां, निकषोपल:= इनके समीप आ रहा है। प्रायः पृथ्वी आदि महाभूतोंके तेज दुःखसे पराजयके योग्य होते हैं। ये (मुनि) तेजस्वियोंमें श्रेष्ठ हैं। इन महात्मासे आश्रित यह जगत् मानों दो सूर्योसे युक्त है। इनके अवलम्बनसे पृथ्वी मानों कम्पसे रहित हुई है। ये (मुनि) करुणाजलके प्रवाह हैं, संसाररूप समुद्रके पार जानेके लिए सेतु (पुल) हैं, क्षमारूप जलके आधार हैं, तृष्णारूप लताओंके वनके कुल्हाड़ी हैं, सन्तोषरूप अमृतरसके समुद्र हैं, सिद्धिमार्गके उपदेशक हैं, अशुभग्रहके अस्तपर्वत हैं। शान्तिरूप वृक्षकी जड़ हैं, बुद्धिरूप चक्रके नाभि (मध्यभाग) हैं, धर्मरूप पताकाके आधारवंश हैं, समस्त विद्याओंके प्रवेशके तीर्थ (घाट ) हैं, लोभरूप समुद्र के वडवाऽग्नि हैं,