________________
कथामुखे-जाबालिवर्णनम् मम्बरतलम् । अहो! महासत्त्वेयं जरा, यास्य प्रलय-रवि-रश्मि-निकर-दुनिरीक्ष्ये रजनिकरकिरण-पाण्ड-शिरोरुहे जटाभारे फेनपूज-धवला गङ्गेव पशुपतेः क्षीराहतिरिव शिखाकलापे विभावसोनिपतन्ती न भीता। बहलाज्य-धूम-पटल-मलिनीकृताश्रमस्य भगवतः प्रभावाद्भीतमिव रवि-किरणजालमपि दूरतः परिहरति तपोवनम् । एते च पवन-लोल-पुञ्जीकृतं-शिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि गृह्णन्ति एतत्प्रोत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयञ्चाश्रमलता-कुसुम-सुरभि-परिमलो मन्दमन्दचारी सशङ्क इवास्य समीपमुपसक्य = दृष्ट्रा, अम्बरतलम् = आकाशमण्डलम्, इदानीम् = अधुना । सप्तर्षिमण्डलेत्यादि० = सप्तर्षीणां ( कश्यपादीनां, मरीच्यादीनां वा ) यत् मण्डलं ( समूहः ) तस्य निवासः ( अवस्थानम् ), तेन अभिमानम् ( अहङ्कारम् ), न वहति =नो धारयति, नूनम् = इव । अस्य मुनेः सप्तर्षिसमत्वादिति भावः । अत्रोत्प्रेक्षाऽलङ्कारः ।।
अहो इति । अहो आश्चर्यम् । इयम् = एषा, अस्य = मुनेः, जरा= विस्रसा, वार्द्धक्यमिति मावः । महासत्त्वा=महाबला, या, अस्य -निकटस्थितस्य, मुनेः, प्रलयेत्यादि:=प्रलयः (कल्पान्तः) तस्मिन् यो रविः ( सूर्यः ) तस्य रश्मिनिकरः ( किरणसमूहः ) स इव दुनिरीक्ष्ये ( दुःखेन निरीक्षणीयः, द्रष्टमशक्य इति भावः ), उपमा, तस्मिन् रजनिकरेत्यादिः० = रजनिकरस्य ( चन्द्रमसः ) किरणाः (मयूखाः ) त एव पाण्डवः ( श्वेताः ) शिरोरुहाः ( केशाः ) यस्य, तस्मिन् । उपमा, तादृशे जटामारे = सटासमूहे। पशुपते:- शङ्करस्य, जटामारे, फेनपुञ्जधवला = फेनस्य (डिण्डीरस्य ) पुजः (ममूहः), तेन धवला ( शुभ्रवर्णा ), गङ्गा भागीरथी' इव । तथा विभावसोः = अग्नेः, शिखाकलापे = ज्वालासमूहे, फेनपुञ्जधवला-फेनपुञ्जः इव धवला, उपमा। क्षीराहुतिः = दुग्धाहुतिः, इव, उपमा । निपतन्ती =निपतनं कुर्वती सती, न भीता=न प्रस्ता । अत्राऽनेकोपमानामङ्गाङ्गिभावेन सङ्करः।
बहलाज्येति । बहलाः (प्रचुराः) ये आज्यधूमाः (घृतधूमाः ), तेषां पटलं ( समूहः ) तेन मलिनीकृत: ( मलीमसीकृतः) आश्रमः ( तपस्विनिवास: ) यस्य, तस्य, तादृशस्य भगवतः =ऐश्वर्यसम्पन्नस्य, जाबालिमुनेरिति भावः, प्रभावात् = माहात्म्यात्, भीतं = त्रस्तम्, इव, उत्प्रेक्षा। रविकिरणजालं-सूर्यरश्मिसमूहः, अपि, तपोवनम् = आश्रमस्थानं, दूरतः विप्रकृष्टप्रदेशात् हव, परिहरति = परित्यजति । अनेनाश्रमो मलिनीकृतोऽहं मालिन्यं न्यवारयिष्यं चेत्तर्झयमकोपिष्यदिति भावेनेति भावः । एते चेति । अत्र = अस्मिन् आश्रमे, पवनेत्यादि: = पवनेन ( वायुना ) लोल: ( चञ्चल: ) पुञ्जीकृतः ( समूहीकृतः) शिखाकलापः (ज्वालासमूहः ) येषां ते। एते= समीपतस्वर्तिनः, आशुशुक्षणयः = अग्नयः, दक्षिणाग्न्यादय इति भावः । रचिताऽञ्जलयः = विहितहस्तसंपुटाः इव, उत्प्रेक्षा । "अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च ।" इति मेदिनी । एतत्प्रीत्या = एतस्य (जाबालिमुनेः ), प्रोत्या (प्रेम्णा ), मन्त्रपूतानि = मनुपवित्राणि, हवींषि = हव्यद्रव्याणि । चरुपुरोडाशादीनीतिभावः । गृह्णन्ति = स्वीकुर्वन्ति ।
तरलितेति । तरलितानि (चञ्चलीकृतानि ) दुकूलवल्कलानि (क्षौमसदृशवल्कानि ) येन सः । आश्रमेत्यादि:०-आश्रमे ( तपोवनाऽऽवासे) यानि लताकुसुमानि ( वल्लीपुष्पाणि ) तेषां सुरभिपरिमल (वृद्धाऽवस्था ) अतिशय बलवाली है, जो प्रलयकालकी सूर्यकिरणोंके समान दुःखसे देखे जानेवाले चन्द्रकिरणों के समान सफेद केशोंवाले इन (मुनि) के जटासमूह में शङ्करके जटाभारमें फेनोंसे सफेद गङ्गाके समान और अग्निके ज्वालासमूहमें फेनोंके समान सफेद दूधकी आहुतिके समान पड़ती हुई भी डरी नहीं। प्रचुर घृतधूमके समूहसे मलिन आश्रमवाले भगवान् जाबालिके प्रभावसे भीतके समान सूर्यकिरणसमूह भी तपोवनको दूरसे परित्याग करता है। इस आश्रममें वायुसे चञ्चल और इकट्ठे हुए ज्वालासमूहवाले ये निकटस्थित अग्निगण मानों अञ्जलि बांधकर इन (मुनि) की प्रीतिसे मन्त्रसे पवित्र हवियोंको ग्रहण करते हैं। इनके क्षौमके समान वल्कलको चञ्चल करनेवाला और आश्रममें लताओंके फूलोंके सुगन्धसे सुगन्धित तथा मन्द-मन्द चलनेवाला यह वायु मानों शङ्कायुक्त-सा होकर