SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३८ कादम्बरी भिश्चतुर्वेदैः सुचिरादि वेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कलिजलद-समय-कलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मना कृतावस्थितिना भगवता परिभूत-कलिकाल-विलसितेन धर्मेण न स्मर्य्यते कृतयुगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डल-निवासाभिमानसरोवरे, "मानसं सरसि स्वान्ते," इति मेदिनी । हंसी इव = मराली इव उपमाऽलङ्कारः । रुचिरद्विजपरिवारा = रुचिराः ( सुन्दरा: ) द्विजाः ( दन्ताः, हंसीपक्षे–पक्षिणः ) परिवारा: ( परिजनाः ) यस्याः सा तादृशी सती, मुखकमलसम्पर्क = मुखम् ( वदनम् ) एव कमलं (पञ) हंसीपक्षेमुखानि इव कमलानि, तेषां सम्पर्कसुखम् (सम्बन्धानन्दम् ) अनुभवन्ती= अनुभवं कुर्वती, सततं = निरन्तरं निवसति = निवासं करोति । उपमाऽलङ्कारः । चतुर्मुखेति । चत्वारि (चतुःसंख्यकानि) यानि मुखकमलानि ( वदनपद्मानि) तद्वासिभिः ( तन्निवासशीलः), चतुर्वेदैः = चतुभिर्वेदैः (ऋग्यजुः-सामाऽथर्वसंज्ञकैः )। सुचिरात् = बहुकालात्, इव, उत्प्रेक्षा। इदम् = निकटस्थं, अपरम् = अन्यत्, द्वितीयमितिभावः । उचितं योग्यं, स्थानं = वासस्थानम्, आसादितं = प्राप्तम् । अत्रोत्प्रेक्षया जाबालिमुखस्य ब्रह्ममुखतुल्यत्वं तपोवनस्य पवित्रत्वं ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः । एनामांत । शरत्कालम् इव= शरदृतुम् इव, एनं = जाबालिमुनिम्, आसाद्य =प्राप्य, कलिजलदसमयकलुषिताः = कलि: ( चतुर्थयुगम् ) एव जलदसमयः ( मेघकाल:, वर्षतुरिति मावः ) तेन कलुषिताः ( मलिनीकृताः )। सरित्पक्षे-कलिरिव जलदसमयः “उपमानानि सामान्यवचनः" इति समासः । जगति लोके, सरित: नद्यः, इव, सर्वविद्या: = सकलालाः वेदादिविद्याः, पुनरपि = भूयोऽपि, प्रसादं निर्दोषत्वं, पठनपाठनादिव्यापारसातत्येनेति भाव:, सरित्पक्ष-प्रसादं = नर्मल्यम्, उपगता:प्राप्ताः । विद्या अष्टादश, ता यथा विष्णुपुराणे "अङ्गानि वेदाश्चत्वारो मीमांसा न्याय एव च । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशव च ॥' इति । सरित्पक्षे शरदि अगस्त्योदये जलं प्रसन्नं भवतीति प्रसिद्धम् । पूर्णोपमाऽलङ्कारः। नियतमिति । इह = अस्मिन् आश्रमे, सर्वात्मना = सकलयत्नेन, नियतं =निश्चितं यथा तथा, कृताऽवस्थितिना = कृता ( विहिता ) अवस्थिति: ( अवस्थानम् ) येन, तेन । परिभूतेत्यादि० परिभूतं (तिरस्कृतम् ) कलिकालस्य ( चतुर्थयुगसमयस्य ) विलसितं ( विलासः, चेष्टारूप इति भावः ) येन, तेन । भगवता % ऐश्वयंसम्पन्न । धर्मण % सुकृतेन, कृतयुगस्य = सत्ययुगस्य, सत्ययुगमिति मावः । "अधीगर्थदयेषां कर्मणि" इति कर्मणि षष्ठी। न स्मयंते =न चिन्त्यते । कलियगे सत्यपि तपोवनेऽस्मिधर्मस्य सर्वतो मावेन विलासो वर्तत इति भावः । घरणितलमिति । अनेन = जाबालिमुनिना, अधिष्ठितम् = आश्रितं, धरणितलं भूतलम्, आलो के सम्पर्क सुखका निरन्तर अनुभव करती हैं। ब्रह्माजीके चार मुखरूप कमलोंमें रहनेवाले चार वेदोंने बहुत समयके अनन्तर यह दूसरा उचित स्थान पा लिया । शरत्ऋतुके समान इनको पाकर वर्षाऋतुके समान कलियुगसे कलुषित सकल विद्याओंने जैसे वर्षासे कलुषित ( मलिन ) नदियां शरतको प्राप्त कर स्वच्छता पाती है वैसे ही जगत्में निर्मलताको पा लिया है । निश्चित रूपसे इस (आश्रम ) में सब यत्नसे निवास करनेवाला और कलियुगके विलासको तिरस्कृत करनेवाला ऐश्वर्य संपन्न धर्म सत्ययुगका स्मरण नहीं करता है। इन (मुनि) से आश्रित भूतलको देखकर आकाश-मण्डल सप्तर्षियों के निवासका अभिमान नहीं करता होगा, ऐसा मालूम होता है। अहो! यह जरा
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy