________________
कथामुखे — जाबालिवर्णनम्
१४१
दिवसकरो मोहान्धकारस्य, अर्गलाबन्धो नरक द्वाराणाम्, कुलभवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभूमिर्मदविकाराणाम्, दर्शकः सत्पथानाम्, उत्पत्तिः साधुतायाः, नेमिरुत्साहचक्रस्य, आश्रयः सत्त्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः पुण्य-सञ्चयस्य, अदत्तावकाशो मत्सरस्य, अरातिविपत्तेः अस्थानं परिभूतेः, अननुकूलोऽभिमानस्य, असम्मतो दैन्यस्य, अनायत्तो रोषस्य अनभिमुखः सुखानाम् ।
1
शाणपाषाणः, वेदादिशास्त्रपरीक्षा हेतुत्वादिति भावः । "शाणस्तु निकषः कष" इत्यमरः । रागपल्लवस्य = रागः ( विषयाऽभिलाष: ) एव पल्लवं ( किसलयम् ) तस्य, दावाऽनलः = वनहुताशनः, रागनिर्वापणादिति भावः । क्रोधभुजङ्गस्य = कोपसर्पस्य मन्त्रः = मनुभूतः शान्तिकारकत्वादिति भावः । मोहाऽन्धकारस्य = अज्ञानतिमिरस्य दिवसकरः = सूर्यः । सूर्योऽन्धकारमिवाऽयमज्ञानं निवारयतीति भावः । सर्वत्रैव रूपकं, तथैकस्य जाबालिमुनेविषयभेदेनाऽनेकधोल्लेखादुल्लेखाऽलङ्कारश्चेति द्वयोरङ्गाङ्गिभावेन सङ्करः । अगलेति । अयं नरकद्वाराणां = निरयप्रतीहाराणाम्, अर्गलाबन्धः = उद्घाटनप्रतिबन्धः, ज्ञानोपदेशेन नरकप्रवेशप्रतिरोधादिति भावः । आचाराणां = धर्माऽनुष्ठानानां कुलभवनं = मूलगृहम् । मङ्गलानां = कल्याणानाम्, आयतनं निकेतनम् । सकलमाङ्गलिककृत्याधारभूतत्वादिति भावः । त्रिष्वपि वाक्येषु रूपकोल्लेखयोरङ्गाङ्गिभावेन सङ्करः ।
अभूमिरिति । मदविकाराणाम् = अहङ्कारविकृतीनाम्, अभूमिः = अस्थानम्, अहङ्काररहित इति भावः । सत्पथानाम् = उत्तममार्गाणां, दर्शकः = दर्शनकारकः, उपदेष्टेति भावः । साधुतायाः = सज्जनतायाः, उत्पत्तिः = उद्गमस्थानमित्यर्थः । उत्साहचक्रस्य =अध्यवसायचक्रस्य, नेमिः = चक्रधारा, उत्साहस्याधार इति भाव: । "उत्साहोऽध्यवसायः स्यात्" इत्यमरः । चक्रधारा प्रधिर्नेमिः" इति यादवः । रूपकमलङ्कारः । सत्त्वस्य = सत्त्वगुणस्य, आधारः = आश्रयः । रजस्तमोगुणयोरभावादिति भावः । कलिकालस्य = चतुर्थंयुगसमयस्य, प्रतिपक्षः = शत्रुः, सत्यत्रेताद्वापरयुगधर्माणां सततानुष्ठातृत्वेनेति भावः । तपसः = तपस्यायाः, कोशः = भाण्डागारम् । सत्यस्य = तथ्यस्य सखा = मित्रं सततसहचारित्वादिति भावः । आजंवस्य = सरलतायाः, क्षेत्रं = केदार:, उत्पत्तिस्थानमिति भावः । ऋजोर्भाव आर्जवम्, अण् प्रत्ययः । पुण्यसंचयस्य = धर्मसमूहस्य, प्रभवः = उत्पत्तिस्थानम् । प्रभवति अस्मादिति प्रभवः, प्रोपसर्गपूर्वकात् "भू" धातोः "ऋदोरप्" इत्यप्प्रत्ययः । अध्यापनोपदेशनाद्याचरणात्पुण्यजननादिति भावः । मत्सरस्य = अन्यशुभद्वेषस्य, अदत्ताऽवकाशः = अदत्तः ( अप्रत्त: ) अवकाश: ( स्थानम् ) येन सः । स्वहृदये मत्सरस्याऽग्रहणादिति भावः । विपत्तेः = आपदः, अरातिः = शत्रुः, तपः प्रभावेण विनाशकत्वादिति भावः । परिभूतेः = तिरस्कारस्य अस्थानम् = अपदम् । अभिमानस्य = अहङ्कारस्य, अननुकूलः = प्रतिकूल: निवर्तकत्वेनेति भावः । दैन्यस्य = दीनतायाः, असंमतः = अनभीष्टः । रोषस्य = क्रोधस्य, अनायत्तः = न अधीनः, तस्य निग्रहादिति भावः । “अधीनो निघ्न आयत्तः” इत्यमरः । सुखानां = प्रमोदानाम्, अनभिमुखः = पराङ्मुखः, सतततपश्वरणेनेति भावः ।
शास्त्ररूप रत्नोंकी कसौटी हैं, विषयोंके अभिलाषरूप पल्लव के दावाऽग्नि हैं, क्रोधरूप सर्पके ( वशकारक ) मन्त्र हैं, मोहरूप अन्धकारके ( हटाने के लिए ) सूर्य हैं, नरकके द्वारोंके ( बन्द करनेके लिए ) अर्गलाबन्ध हैं, आचारोंके कुलभवन ( मूलगृह ) हैं, मङ्गलोंके गृह (आधार) हैं, मदके विकारोंके अभूमि ( अस्थान ) हैं, सन्मार्गों के दर्शक ( दिखलानेवाले) हैं, सज्जनता के उत्पत्ति-स्थान हैं, उत्साहरूप चक्रके नेमि (धार) हैं, सत्त्वगुणके आश्रय हैं, कलियुग के शत्रु हैं, तपस्याके कोश ( खजाना ) हैं, सत्यके मित्र हैं, सरलताके क्षेत्र हैं, पुण्यसञ्चयके उत्पत्तिस्थान हैं, मात्सर्यको स्थान नहीं देनेवाले हैं, विपत्तिके वैरी हैं, तिरस्कारके स्थान नहीं हैं, अहङ्कारके अनुकूल नहीं हैं, ( प्रतिकूल हैं ) । दोनताके अभीष्ट नहीं हैं, क्रोधके अधीन नहीं हैं, ये सुखों के सम्मुख नहीं हैं, ( पराङ्मुख