________________
१३४
कादम्बरी
जरत्कल्पतरुमिव परिणतलतासञ्चयेन निरन्तर - निचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसन्तान तन्तुभिरिव निम्मितेन मानस-सरो- जलक्षालनशुचिना दुकुलवल्कलेनाऽद्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्त्तना मन्दाकिनीसलिल- पूर्णेन त्रिदण्डोपविष्टेन स्फाटिककमण्डलुना विकचपुण्डरीकराशिमिव राजहंसेनोपशोभमानम्, स्थैर्येणाचलानां, गाम्भीर्येण सागराणां, तेजसा सवितुः, प्रशमेन तुषाररश्मेः, निर्मलतयाऽम्बरतलस्य संविभागमिव कुर्व्वाणम्, वैनते मिव स्वप्रभावोपात्त-द्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरच्चन्दनतरुमिव भुजङ्गनिर्मोक-धवलजटाकुलम्, प्रशस्त वारणपतिमिव प्रलम्ब - कर्णबालम्, बृहस्पतिमिवाजन्म
इत्यमरः । परिणतलतासञ्चयेन परिणतानां ( पाकं प्राप्तानाम् ) लतानां ( वल्लीनाम् ) सञ्चयेन ( समूहेन ) निरन्तरनिचितमू (अनवरतव्याप्तम्) जरत्कल्पतरुं - जीर्ण कल्पवृक्षम् इव अत्रोपमाऽलङ्कारः । अमलेनेति । अमलेन = निर्मलेन, चन्द्रांशुभिः = इन्दुकिरणैः, इव, उत्प्रेक्षा अमृतफेनैः = पीयूषडिण्डीर : इव, उत्प्रेक्षा । गुणसन्तानतन्तुभिः = गुणानां ( विद्यातपश्चरणादीनाम् ) सन्ताना: ( परम्परा : ) एव तन्तव: ( सूत्राणि ), तैः, रूपकालङ्कारः । तैरिव निर्मितेन = रचितेन । उत्प्रेक्षा । मानसेत्यादिः० = मानससर : ( मानसकासार : ) तस्य जलं ( सलिलम् ) तेन क्षालितं ( धौतम् ), अतएव शुचि ( पवित्रम् ), तेन । अद्वितीयेन = अपूर्वेण, जराजालकेन = विस्त्रसासमूहेन, इव, उत्प्रेक्षा । दुकूलवल्कलेन = क्षौमसदृश वल्केन, संछादितम् = आच्छादितम् ।
आसन्नेति । आसन्नवर्तिना = निकटस्थेन, मन्दाकिनी सलिलपूर्णेन = मन्दाकिनी ( सुरदीर्घिका ) तस्या यत् सलिलं ( जलम् ), तेन पूर्णेन ( पूरितेन ) त्रिदण्डोपविष्टेन = त्रिदण्ड: ( त्रिपादिका ) तत्र उपविष्टेन (स्थितेन ), स्फाटिककमण्डलुना = स्फटिकमयकरकेण, राजहंसेन = मरालेन विकचपुण्डरीकराशि - विकसितश्वेतकमलसमूहम्, इव, उपशोभमानं = विराजमानम् । उपमा ।
स्थैर्येणेति । स्थैर्येण = स्थिरतया । अचलानां = पर्वतानाम्, “संविभागं कुर्वाणम् इवे" त्यत्र सम्बन्धः, एव परत्राऽपि । गाम्भीर्येण गम्भीरत्वेन गुणेन, सागराणां = समुद्राणाम्, तेजसा = ! प्रतापेन, सवितुः = सूर्यस्य । प्रशमेन = प्रशान्त्या, तुषाररश्मेः = चन्द्रस्य, निर्मलतया = स्वच्छत्वेन, अम्बरतलस्य = आकाशतलस्य । संविभागं = संविभज्यप्रदानं कुर्वाणं = विदधानम् इव, अतिशयोक्तेरुत्प्रेक्षायाश्वाऽङ्गाङ्गिभावेन सङ्करः । वैनतेयम् = गरुडम् इव विनताया अपत्यं पुमान् वैनतेयः तम् । "स्त्रीभ्यो ढक्” इति ढक् । स्वेत्यादिः = स्वस्य ( आत्मन: ) प्रभाव: ( सामर्थ्यम् ) तेन उपात्तं ( समजतम् ) द्विजानाम् ( पक्षिणां, जाबालिपक्षे --- ब्राह्मणानाम् ) आधिपत्यं ( प्रभुत्वम् ), येन तम् । " दन्तविप्राण्डजा द्विजाः" इत्यमरः । पूर्णोपमालङ्कारः, एवं परत्राऽपि । कमलासनं = ब्रह्माणम्, इव" धाताऽब्जयोनिर्दुहिणो विरविः कमलासनः ।" इत्यमरः । आश्रमगुरुम् = आश्रमस्य ( ब्रह्मचर्याद्याश्रमसमूहस्य जाबालिपक्षे तपोवनस्थानस्य ), गुरु: ( नियामक: ), तम् ।
0=
जरच्चन्दनतरुं = जीर्णश्रीखण्डवृक्षम् इव, भुजङ्गेव्यादिः • धवला ( शुभ्रा ) या जटा ( शिफा ) तया आकुलं ( व्याप्तम् ),
• भुजङ्ग निर्मोकं : ( सर्पकञ्चुक : ) जाबालिपक्षे – भुजङ्ग निर्मोक इव
लताओंसे निरन्तरव्याप्त पुराने कल्पवृक्ष के समान थे। जो मानों चन्द्रकिरणोंसे और मानों अमृतके फेनोंसे मानों विद्या तपस्या आदि गुण पङ्क्तिरूप तन्तुओंसे निर्मित, मानस सरोवर के जलसे प्रक्षालन करनेसे पवित्र रेशमी वस्त्रके सदृश थे, बुढ़ापेके समूहकी आच्छादित निकटमें स्थित गङ्गाजीके जलसे पूर्ण, तिपाईपर स्थित स्फटिकके कमण्डलुसे मानों राजहंससे शोभित विकसित श्वेतकमल समूहके समान, जो स्थिरतासे पर्वतोंका, गम्भीरतासे समुद्रोंका, तेजसे सूर्यका, शान्तिसे चन्द्रमाका, निर्मलतासे मानों आकाश तलका संविभाग ( हिस्सा ) कर रहे थे, गरुडके समान अपने सामर्थ्य से द्विजों (पक्षियों, मुनिपक्ष में ब्राह्मणों) का स्वामित्व किये हुए थे, जो ब्रह्माके समान आश्रम ( ब्रह्मचर्य आदिके, मुनिपक्षमें तपोवनके) गुरु थे, जीर्ण चन्दन वृक्षके समान सर्पके केंचुलसे, मुनिपक्षमें - केंचुलके समान सफेद जटाओंसे व्याप्त थे, श्रेष्ठ गजनायकके समान लम्बे कर्ण और पुच्छसे युक्त, मुनिपक्ष में-लम्बे कर्णौके लोमवाले थे,