________________
कथामुखे जाबालिवर्णनम्
१३५ वद्धित-कचम्, दिवसमिवोद्यदर्क-बिम्ब-भास्वर-मुखम्, शरत्कालमिव क्षीणवर्षम्, शन्तनुमिव प्रियसत्यवतम्, अम्बिका-करतलमिव रुद्राक्ष-वलय-ग्रहण-निपूणम्, शिशिर-समयसूर्यमिव कृतोत्तरासङ्गम्, वडवानलमिव संतत-पयोभक्ष्यम्, शून्यनगरमिव दीनाऽनाथविपन्नशरणम्, पशुपतिमिव भस्म-पाण्डु-रोमाश्लिष्ट-शरीरम्, भगवन्तं जाबालिमपश्यम् । घवला ( शुभ्रा ) या जटा ( सटा ) तया आकुलम् । “समौ कञ्चुकनिर्मोको" इति "वतिनस्तु जटा सटा" इत्युभयत्राऽप्यमरः ।
प्रशस्तेति । प्रशस्तवारणपति = प्रशस्त: ( प्रशस्यलक्षणयुक्तः ) यो वारणपतिः (हस्तिनायक:) तम् इव, प्रलम्बकर्णवालं = प्रलम्बाः ( दीर्घाः ) कणों ( श्रोत्रे ) वालाः ( लाङ्लानि ) यस्य, तम् । जावालिपक्षे–प्रलम्बा: कर्णवालाः (श्रोत्रलोमानि ) यस्य, तम् । “वालो ना कुन्तलेऽश्वस्य गजस्याऽपि च वालधौ । इति मेदिनी।
बृहस्पतिमिति। बृहस्पतिम् =सुराचार्यम्, इव, आजन्मवद्धितकचम् = आ जन्म (जन्मन आरम्य) वद्धितः ( वृद्धि प्रापितः ) कचः (तन्नामकः स्वपुत्रः) येन सः । जाबालिपक्षे-आजन्म वद्धिताः कचाः ( केशाः ) यस्य, तम् । “कचः केशे गुरोः सुते' इति मेदिनी।।
दिवसमिति । दिवसं = दिनम्, इव । उद्यदर्केत्यादि: = उद्यत् ( उदयं प्राप्नुवत् ) यत् अर्कमण्डलं ( सूर्यमण्डलम् ), जाबालिपक्षे-उद्यदर्कमण्डलम् इव, मास्वरं (दीप्तिसंपन्नम्) मुखम् (आरम्ममागः, जाबालिपक्ष-आननम् । यस्य, तम् ।
शरत्कालमिति । शरत्कालं = शरदृतुम्, इव, क्षीणवर्ष = क्षीणं (क्षयं प्राप्तम् ) वर्ष (वृष्टिः) यस्य, तम्, जाबालिपक्षे-क्षोणाः ( व्यतीताः ) वर्षाः ( हायनानि ) यस्य, तम् । “स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ।" इत्यमरः ।
शन्तनुमिति शन्तनुं - भीष्मजनकम्, इव, प्रियसत्यव्रतं = प्रियः ( दयितः ) सत्यव्रत: ( सत्यव्रतनामकः पुत्रः ) यस्य सः, तम् । जाबालिपक्षे प्रियम् ( इष्टम् ) सत्यं (तथ्यम् ) एव व्रतं ( नियमः) यस्य, तम् ।
अम्बिकेति । अम्बिकाकरतलम् = अम्बिकायाः (भवान्या: ) करतलम् ( हस्ततलम् ) इव, रुद्राक्षेत्यादि:० रुद्राक्षाणां ( शिवाक्षाणां, फलविशेषाणाम् ) वलयं ( मण्डलम् ) तस्य ग्रहणम् ( उपादानं, पत्युः कृते मालागुम्फनार्थमितिशेषः ) तस्मिन् निपुणं ( प्रवीणम् ), जाबालिपक्षे-जपसंख्यापरिगणनार्थमितिमावः ।
शिशिरेति । शिशिरसमयसूर्य = शिशिरसमये (शीतकाले माघ इति भावः) सूर्यः ( मास्करः ), तम् इव, कृतोत्तरासङ्गं = कृतः (विहितः ) उत्तरस्याः ( उदोच्याः दिशः) सङ्गः ( सम्पर्क: ) येन, तम् । जाबालिपक्षे–कृतः (घृत इति भावः) उत्तरासङ्गः (प्रावारः) येन, तम् । "द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा।" इत्यमरः ।
बडवाऽनलम् = बाडवाऽग्निम् इव, सन्ततपयोमक्ष्यं = सन्ततं (निरन्तरम् ) पयः ( जलं, मुनिपक्षे-दुग्धम् ) एव भक्ष्यं ( भक्षणीयं वस्तु ) यस्य सः । “पयः क्षीरं पयोऽम्बु चे" त्यमरः ।
शून्येति । शून्यनगरं = जनहीनपुरम्, इव, दीनाऽनाथविपन्नशरणं = दीनाः ( दरिद्राः) जो बृहस्पतिके समान जन्मसे कच ( अपने पुत्र ) को, मुनिपक्षमें-कच (केश) को बढ़ाये हुए थे, जो दिनके समान उगे हुए सूर्यमण्डल-से, मुनिपक्षमें-सूर्यमण्डलके समान चमकीले मुखवाले थे, जो शरत् ऋतुके समान क्षीण वर्ष (वृष्टि, मुनिपक्षमें साल) वाले थे, जो शन्तनुके समान सत्यव्रत (भीष्म) को, मुनिपक्षमें-सत्यरूप व्रत (नियम ) को प्यार करनेवाले थे, जो पार्वतीके करतलके समान रुद्राक्षमालाके गुम्फनमें, मुनिपक्षमें-जपसंख्याके परिगणनके लिए रुद्राक्षमालाको लेने में निपुण थे, शीतकालके समान उत्तरदिशाका सम्पर्क मुनिपक्षमें-उत्तरीय