________________
कथामुखे-जाबालिवर्णनम्
१३३ दीर्घरोम-रुद्ध-श्रवण-विवरम् आनाभिलम्बित-कूर्चकलापमाननमादधानम्, अतिचपलानामिन्द्रियाश्वानाम् अन्तःसंयमन-रज्जुभिरिवातताभिः कण्ठनाडीभिनिरन्तरावनद्ध-कन्धरम्, समुन्नत-विरलास्थि-पञ्जरम्, अंसालम्बि-यज्ञोपवीतम्, वायु-वराजनित-तनु-तरङ्ग-भङ्गम् उत्प्लवमान-मृणालमिव मन्दाकिनीप्रवाहम्, अकलुषमङ्गमुद्वहन्तम्, अमल-स्फटिकशकल-घटितमक्षवलयमत्युज्ज्वलस्थूल-मुक्ताफल-प्रथितं सरस्वतीहारमिव चलदङ्गलि-विवरगतमावतंयन्तम्, अनवरतभ्रमित-तारकाचक्रमपमिव ध्रुवम्, उन्नमता शिरा-जालकेन यानि दीर्घरोमाणि ( आयतलोमानि ) तः रुद्धे ( आवृते ) श्रवणविवरे ( कर्णच्छिद्रे ) यस्मिस्तत् । आनामिलम्बकूर्चकलापम् = आनाभि ( नाभिपर्यन्तम् ) लम्बः ( अवस्रस्तः ) कूर्चकलापः ( मुखलोमसमूहः ) यस्मिस्तत् । तादृशम् आननं = मुखं, दधानं धारयन्तम् ।
अतिचपलानाम् = अतिशयचञ्चलानाम्, इन्द्रियाऽश्वानाम् = इन्द्रियाणि (हृषीकाणि, श्रोत्रानीति भावः ) एव अश्वाः (हयाः ), तेषाम् । नराणां विषयान्प्रत्याकर्षणहेतुत्वादिन्द्रियाणि हयपदेन व्यपदिष्टानि, तथा च कठोपनिषदि-"इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान् १-३-४।" इति । रूपकाऽलङ्कारः। अन्तःसंयमनरज्जुमिः = अन्तः ( मध्ये ) संयमनरज्जुभिः (नियन्त्रणरश्मिभिः ) इव, उत्प्रेक्षा, रूपकोत्प्रेक्षयोरङ्गाङ्गिमावेन सङ्करः । आतताभिः = अतिशयदीर्घाभिः । कण्ठनाडीभिः = गलशिराभिः, निरन्तराऽवनद्धकन्धरं-निरन्तरम् ( अनवरतं यथा तथा ) अवनद्धा ( सम्बद्धा ) कन्धरा (ग्रीवा ) यस्मिन्, तत्, "अङ्गम्" इत्यस्य विशेषणम्, एवं परत्राऽपि । समुन्नतेत्यादि:०= समुन्नतम् ( अत्यच्चम् ) विरलम् ( अनिबिडम् ) अस्थिपञ्जरं ( कालम् ) यस्मिस्तत् । अंसाऽवलम्बियज्ञोपवीतम् = अंसे (स्कन्धे ) अवलम्बते ( आलम्बते) तच्छीलं, तादृशं यज्ञोपवीतम् ( ब्रह्मसूत्रम् ) यस्मिस्तत् । अत एव-वायुवशेत्यादिः = वायुवशेन ( अनिलवशेन ) जनिताः ( उत्पादिताः ) तनुः ( सूक्ष्मः ) तरङ्गभङ्गः ( ऊर्मिकौटिल्यम् ) यस्मिन् तम् । उत्प्लवमानमृणालम् = उत्प्लवमानानि ( संवहमानानि ) मृणालानि (बिसानि ) यस्मिन्, तम् । उपमाऽलङ्कारः । मन्दाकिनीप्रवाहं %= वियद्गङ्गास्रोतः, इव, अकलुषम् = निर्मलम्, अङ्गं = देहाऽवयवम्, उद्वहन्तं धारयन्तम् ।
अमलस्फटिकेति । अमलानि (निर्मलानि ) यानि स्फटिकशकलानि (सूर्यकान्तमणिखण्डानि) तैः घटितं ( संयोजितम् ), अत्युज्ज्वलेत्यादिः = अत्युज्ज्वलानि ( अतिशयविशदानि ) स्थूलानि ( पृथुलानि ) यानि मुक्ताफलानि ( मौक्तिकानि ) तैः ग्रथितं ( गुम्फितम् ) सरस्वतीहारं = भारतीमुक्तामाल्यम् इव, उपमाऽलङ्कारः । चलदङ्गलिविवरगतं = चलन्त्यः (सचलन्त्यः) अङ्गलयः (करशाखाः) तासां विवराणि (छिद्राणि ) तानि गतम् (प्राप्तम् )। एतादृशम् अक्षवलयम् = रुद्राक्षमालाम् ) आवर्तयन्तम् ( भ्रमयन्तम् ), अत एव अनवरतेत्यादि: अनवरतं (निरन्तरम् ) भ्रमितं ( पर्यटितम् ) तारकाचक्रं ( नक्षत्रमण्डलम् ) यस्मिन्, तम् । तादृशं ध्रुवम् - औत्तानपादिम्, इव अत्र स्फाटिकाक्षवलयतारकाणां शुचिवर्तुलत्वमेव साम्यम्, उपविष्टस्य मुनेः स्थिरत्वाद्ध्वसाम्यमिति भानूचन्द्रः । अत्रोपमोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः।
उन्नमतेति । उन्नमता= उपरि स्फुरता, शिराजालकेन-धमनिसमूहेन "नाडिस्तु धमनि: शिरा"
और विरल आँखोंकी पलकोंको पङ्क्तिसे युक्त, उगे हुए लम्बेरोमोंसे घिरे हुए कर्णच्छिद्रवाले। नाभितक लटकी हुई दाढ़ियोंसे युक्त, ऐसे मुखको धारण किये हुए, अत्यन्त चञ्चल इन्द्रियरूप अश्वोंको भीतर रोकनेको रज्जुके समान विस्तीर्ण कण्ठनाडियोंसे निरन्तर सम्बद्ध ग्रीवा (गर्दन ) वाले, उन्नत और विरल अस्थिपञ्जर ( ठठरी) वाले, कन्धेपर लटके यज्ञोपवीत (जनेऊ) से युक्त, वायुवश उत्पन्न सूक्ष्मतरङ्गोंवाले, तैरते हुए मृणालसे युक्त गङ्गाप्रवाहके समान अकलुष (निर्मल वा पापरहित) अङ्गको धारण करते हुए, जो चलती हुई उँगलियोंके विवरमें स्थित निर्मल स्फटिकके टुकड़ोंसे बनाई गई अक्षमालाको मानों अतिशय उज्ज्वल बड़े-बड़े मोतियोंसे Dथी हुई सरस्वतीकी मुक्तामालाके समान घुमा रहे थे, जो मानों लगातार घूमते हुए नक्षत्र मण्डलसे युक्त दूसरे ध्रव थे। जो उठी हुई शिराओंसे परिणत