________________
कादम्बरी
१३२ मान-दृष्टिम्, अनवरतमन्त्राक्षराऽभ्यास-विवृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रिय-वृत्तिभिरिव करुणारस-प्रवाहैरिव दशनमयूखैर्धवलित-पुरोभागम्, उद्वमदमलगङ्गा-प्रवाहमिव जह्वम्, अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टैत्तिमद्भिः शापाक्षरैरिव सदा मुखभाग-सन्निहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतर-गण्डगतम् उन्नततर-हनु-घोणम् आकराल-तारकम् अवशीय॑माण-विरल-नयन-पक्ष्ममालम् उद्गत
(स्वरूपम् ) ययोस्ते, ताभ्याम् उपमालङ्कारः। अवलम्बितबलिशिथिलाभ्याम् = अवलम्बिता ( आलम्बिता ) या बलि: (शिथिलचर्म ) तया शिथिले (श्लथे) ताभ्याम् । तादृशीभ्यां भ्रलताभ्यां नयनरोमवल्लीभ्याम्, अवष्टभ्यमानदृष्टिम् = अवष्टभ्यमाना (अवलम्ब्यमाना) दृष्टिः (दर्शनक्रिया ) यस्य, तम् ।
अनवरतेति । अनवरतं (निरन्तरं, यथा तथा ) मन्त्राऽक्षराऽभ्यासः ( मन्त्रवर्णोच्चारणबाहुल्यम् ) तेन विवृतम् ( अनावृतम् ) अघरपुटम् ( ओष्ठपुरम् ) यस्य, तस्य भावस्तत्ता, तया । निष्पतद्भिः
=निष्क्रामद्भिः, अतिशुचिभिः = अतिपवित्रः, सत्यप्ररोहैः = ऋताऽङ्करैः इव, स्वच्छेन्द्रियवृत्तिभिः = स्वच्छाः ( अतिनिर्मलाः ) या इन्द्रियवृत्तयः ( हृषीकव्यापाराः ), तामिः, इव उत्प्रेक्षा करुणारसप्रवाहैः = करुणाया: ( दयायाः) यो रसः ( द्रवः ), तस्य प्रवाहैः ( स्रोतोभिः ) इव । तादृशः दशनमयूखैः = दन्तकिरणः, धवलितपुरोमागं = धवलित: ( शुक्लीकृतः ) पुरोभागः ( अग्रप्रदेशः) यस्य, तम् । उदमदमलगङ्गाप्रवाहम् = उद्वमन् ( उगिरन् ) अमल: (निर्मल: ) गङ्गाप्रवाहः ( जाह्नवी स्रोतः ) यस्मात्, तं, तादृशं जहनुम् = तन्नामकं राजर्षिम् इव । पुरा भगीरथपथप्रवाहिता गङ्गा यजमानस्य जहनुनामकभूपालस्य यज्ञवाट प्लावयामास । ततः कुपितो राजा तामपिबत् । ततश्च भगीरथप्रार्थनया श्रोत्रद्वारेण ताममुञ्चत्, सा च जाह्नवीत्याख्यां प्रापेति पौराणिकी कथा।
___ अनवरतेति । अनवरतं (निरन्तरं, यथा तथा ) यः सोमः ( लक्षणया पीतसोमरस: ) तस्य उद्गारः ( निगारः, ऊर्ध्ववायुजनितशब्द इति भावः ), तस्य यः सुगन्धिः ( सुगन्धयुक्तः ) नि:श्वासः (निःश्वसनवातः ) तेन अवकृष्टा: ( आकृष्टाः ), तैः । “निगारोद्गारविक्षावोद्वाहास्तु गरणादिषु ।" इत्यमरः । मूर्तिमद्भिः शरीरिभिः, शापाऽक्षरः=आक्रोशवणः, इव उत्प्रेक्षाऽलङ्कारः। सदा = सर्वदा, मुखभागसन्निहितः = वदनप्रदेशनिकटस्थितः, परिस्फुरद्भिः = संचलद्भिः, अलिमिः =भ्रमरः, अविरहितम् = अवियुक्तं, सहितमिति भावः । अतिकृशतया =अतिशयदुर्बलत्वेन, निम्नतरगण्डगत = निम्नतरौ ( गम्भीरतरौ) गण्डगतों ( कपोलाऽवटी, कपोलाऽध:प्रदेशाविति भाव: ) यस्य तत् । उन्नततरहनुघोणम् = उन्नततरम् ( उच्चतरम् ) हनुघोणं ( कपोलपरभाग-नासिकम् ) यस्मिस्तत् । हन च घोणा च हनुघोणं, “द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्" इति समाहारद्वन्द्वः । आकरालतारकम् = आकराले ( अतिशयभीषणे ) तारके ( कनीनिके ) यस्मिस्तत् । “करालं दन्तुरे तुङ्गे भीषणे चाऽभिधेयवत् ।" इति मेदिनी। “तारकाऽक्ष्ण: कनीनिका।" इत्यमरः ।
अवशोर्यमाणेत्यादिः = अवशीर्यमाणा (क्षीयमाणा ) अत एव विरला ( अनिबिडा ) नयनयो: ( नेत्रयोः ) पक्ष्ममाला ( लोमराजिः ) यस्मिन्, तत् । उद्गतेत्यादिः - उद्गतानि ( आविर्भूतानि ) लटकी हुई बलि (झुरी) से शिथिल भ्रलताओंसे अवलम्बन की गई दर्शन क्रियासे युक्त थे, जो निरन्तर मन्त्रके अक्षरोंके अभ्याससे अधर खुले रहनेसे निकलते हुए अत्यन्त पवित्र सत्यके अङकुरोंके समान, स्वच्छ इन्द्रियोंकी वृत्तियोंके समान और करुणारसके प्रवाहोंके समान दाँतोंकी किरणोंसे जिनका आगेका भाग सफेद था, निर्मल गङ्गाप्रवाहको उगलते हुए जहनुके समान, निरन्तर पीये गये सोमलता रसके उद्गारसे सुगन्धित निश्वाससे आकृष्ट और सदा मुखभागके निकटस्थित चलते हुए भौरोंसे मानों मूर्तिमान् शापाक्षरोंसे सहित थे। अत्यन्त दुर्बल होनेसे अधिक निम्न कपोलके गड्ढेवाले, ऊँचे हनु ( जबड़े ) और नासिकासे युक्त, अत्यन्त भयङ्कर आँखोंकी पुतलियोंवाले, क्षीण