________________
कथामुखे — जाबालिवर्णनम्
१३१
क्रुद्धयेव कृत भ्रूभङ्गया, मत्तयेवाकुलितगमनया, प्रसाधितयेव प्रकटित- तिलकया जरया, गृहीतव्रतयेव भस्मधवलया धवलीकृत-विग्रहम्, आयामिनीभिः पलित-पाण्डुराभिस्तपसा विजित्य मुनिजनमखिलं धर्म्मपताकाभिरिवोच्छ्रिताभिरमरलोकमारोढुं पुण्य-रज्जुभिरिवोपसंगृहीताभिरतिदूर-प्रवृद्धस्य पुण्यतरोः कुसुम-मञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभितम्, उपरचित-भस्म - त्रिपुण्ड्रकेण तिर्यक्प्रवृत्त त्रिपथगा - स्रोतस्त्रयेण हिमगिरि - शिलातलेनेव ललाटफलकेनोपेतम्, अधोमुखचन्द्र- कलाकाराभ्यामवलम्बित - बलि-शिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यकोपाविष्टया नायिकया, इव कृतभ्रूभङ्गया = कृतः विहितः ) भ्रमङ्गः ( अक्षिलोमकौटिल्यं, जरापक्षे – अक्षिलोमरोगः ) यया । कुद्धा नायिका यथा भ्रमङ्गं करोति तथैव जराऽपि भ्रूविकारं प्रदर्शयतीति भावः । मत्तया = मदिराऽऽदिमदयुक्तया, इव, आकुलितगमनया = आकुलितं (विषमीकृतम् ) गमनं ( गति: ) यया तया मदिरया यथा गतिः स्खलिता भवति तथैव जरयाऽपीति भावः । प्रसाधितया = अलङ्कृतया, इव, प्रकटिततिलकया = प्रकटितं ( प्रकाशितम् ) तिलकं ( विशेषकम् ) या, तया, पक्षे प्रकटित: तिलकः ( तिलकालकः, तिलकसदृशं चिह्नम् ) यया, तया । यथा प्रसाधिता स्ववदने तिलकं ( विशेषकम् ) रचयति तथैव जराऽपि तिलसदृशं कृष्णचिह्नं शरीरे प्रकाशयतीति भावः । “तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोम्नोनं स्त्रियां तु विशेषके ।” इति मेदिनी । गृहीतव्रतया - गृहीतं ( स्वीकृतम् ) व्रतं ( नियमविशेष: ) यया, तया, इव अत एव भस्मधवलया = भस्मना ( भूत्या ) धवला ( शुभ्रा ) तया तादृश्या नार्या इव, जरापक्षे = भस्म इव धवला, तया । तादृश्या जरया = वृद्धाऽवस्थया, धवलीकृतविग्रहं = धवलीकृत: ( शुक्लीकृत: ) विग्रह: ( शरीरम् ) यस्य, तम् ।
=
आयामिनीभिरिति । आयामिनीभिः = दैर्घ्ययुक्ताभिः " जटामि" रित्यस्य विशेषणम्, एवं परत्राऽपि । पलितपाण्डुराभिः = पलितेन ( जरसा शुक्लत्वेन ) पाण्डुराभि: ( शुक्लाभि: ), तपसा = तपस्यया, अखिलं = समस्तं मुनिजनं = तापसलोकं, विजित्य = वशीकृत्य, उच्छ्रिताभिः = उन्नतामिः । घर्मंपताकाभिः = पुण्यध्वजैः, इव, उत्प्रेक्षा । अमरलोकं = सुरभुवनं, स्वर्गमिति भावः । आरोढुम् : आरोहणं कर्तुम्, पुण्यरज्जुभिः = पवित्ररश्मिभिः, इव, उत्प्रेक्षा । उपसंगृहीताभिः = स्वीकृताभिः, अतिदूरप्रवृद्धस्य - अतिदूरम् ( अतिविप्रकृष्टम् ) प्रवृद्धस्य ( वृद्धि प्राप्तस्य ), पुण्यतरोः = धर्मवृक्षस्य, रूपकालङ्कारः । कुसुममञ्जरीभिः = पुष्पवल्लरीभिः, इव, उत्प्रेक्षा । उद्गताभिः = प्रादुर्भूताभिः, जटाभिः = सटाभिः, उपशोभितम् = अलङ्कृतम् । अत्रोत्प्रेक्षारूपकयो रेकाश्रयाऽनुप्रवेशात्सङ्कराऽलङ्कारः ।
उपरचितेति । उपरचितभस्मत्रिपुण्ड्रकेण = उपरचितानि ( उपनिर्मितानि ) भस्मना ( भूत्या ) श्रीणि ( त्रिसंख्यकानि ) पुण्ड्रकाणि ( तिलकविशेषाः ), यस्मिन् तेन । तिर्यगित्यादि: ० = 1 :० = तिर्यक्प्रवृत्तं ( वक्रमावप्रवृत्तम् ) स्रोतस्त्रयं ( प्रवाहत्रितयम् ) यस्मिन् तेन । हिमगिरिशिलातलेन = हिमगिरे: ( हिमालयस्य ) शिलातलेन ( प्रस्तरतलेन ) इव, उत्प्रेक्षाऽलङ्कारः । ललाटफलकेन = भालपट्टेन, उपेतं = युक्तम् ।
अधोमुखेति । अधोमुखी ( निम्नगता) या चन्द्रकला ( इन्दुभागः ) तस्या इव आकार: कुपित स्त्रीके समान भौहों को कुटिल करनेवाली, जरा ( बुढ़ापा ) के पक्ष में — नेत्र के लोमोंमें रोगोंसे युक्त । मत्त स्त्रीके समान विषमगमनवाली, अलङ्कृत स्त्रीके समान तिलकको प्रकट करनेवाली, जराके पक्ष में – तिलक सदृश चि युक्त । भस्म धारण करनेसे श्वेतवर्णवाली व्रतलेनेवाली स्त्रीके समान, भस्मके समान सफेद जरा ( बुढ़ापा ) से सफेद शरीरवाले, जो ( जाबालिमुनि ) विस्तीर्ण, बुढ़ापासे सफेद, समस्त मुनियोंको तपस्यासे जीतकर उन्नत धर्मपताकाओंसे मानों स्वर्ग में चढ़नेके लिए संगृहीत पवित्र रस्सियोंके समान, मानों अत्यन्त दूरतक बढ़े हुए पुण्यवृक्षकी उत्पन्न पुण्यमञ्जरियोंकी समान उगी हुई जटाओंसे शोभित थे। जो भस्म से रचे हुए त्रिपुण्ड्रकसे युक्त, तिरछी चली हुई गङ्गाजीके तीन प्रवाहवाले हिमालय के चट्टानके समान ललाटफलकसे युक्त, अधोमुख चन्द्रकलाके आकारवाली