________________
कथामुखे जाबाल्याश्रमवर्णनम्
१२१ पङ्क्तिभिः, तापसदर्शनागतसप्तर्षि-मालाविगाह्यमानाभिरिव, विकच-कुमुदवनमृषिजनमुपासितुमवतीणं ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम्, अनिलावनमितशिखराभिः प्रणम्यमानमिव वनलताभिः, अनवरतमुक्तकुसुमैरभ्यय॑मानमिव पादपैः, आबद्धपल्लवाञ्जलिभिरुपास्यमानमिव विटपैः, उटजाजिर-प्रकीर्ण-शुष्यच्छ्यामाकम्, उपसंगृहीतामलक-लवली-लवङ्ग-कर्कन्धू-कदली-लकुच-चूत-पनस-तालफलम्, अध्ययनमुखर-बटुजनम्, अनवरत-श्रवण-गृहीत-वषट्कार-वाचालशुककुलम्, अनेक-सारिकोख़ुष्यमाण-सुब्रह्मण्यम्, अरण्य(सूर्यमण्डलस्य) पक्तिः (आवलिः) यासु, ताभिः । “दीधिकाभिः" इत्यस्य विशेषणम्. एवं परत्राऽपि । तापसेत्यादिः = तापसानां ( तपस्विनां, जाबालिप्रभृतीनामिति माव:)। दर्शनाय ( विलोकनाय ) आगता (प्राप्ता ) या सप्तर्षिमाला ( कश्यपादिसप्तर्षिपङ्क्तिः ) तया विगाह्यमानामिः, ( विलोड्यमानाभिः ) इव, एतेन सप्तर्षीणां रविप्रतिबिम्बसादृश्यं निरूपितम् । उत्प्रेक्षाऽलङ्कारः । तथा निशासु = रात्रिषु, ऋषिजनं = जाबाल्यादिमुनिगणम्, उपासितुं-सेवितुम्, अवतीर्ण-कृताऽवतरणम्, उपरिष्टादागतमित्यर्थः । ग्रहगणम् इव = खेटसमूहम्, इव सूर्यादिकमिवेति भावः । उत्प्रेक्षा । विकचकुमुदवनं = विकचानि ( विकसितानि ) यानि कुमुदानि (करवाणि ) तेषां वनम् ( समूहम् ) उद्वहन्तीभिः= धारयन्तीभिः, दीधिकाभिः= वापीभिः, परिवृतं = परिवेष्टितम् ।
__अनिलेति । अनिलाऽवनमितशिखराभिः = अनिलेन ( वायुना ) अवनमितानि ( नम्रीभूतानि ) शिखराणि ( ऊवभागाः ) यासां ताभिः । तादृशीभिः वनलताभिः = अरण्यवल्लीभिः, प्रणम्यमानं = नमस्क्रियमाणम्, इव, उत्प्रेक्षा।
अनवरतेति । अनवरतं ( निरन्तरं यथा तथा ) मुक्तानि ( त्यक्तानि ) कुसुमानि ( पुष्पाणि ) यः,तः, पादपः- वृक्षः, अभ्यय॑मानम् = पूज्यमानम्, इव । उत्प्रेक्षा।
आबद्धेति । आबद्धाः ( रचिताः ) पल्लवाः ( किसलयानि ) एव अञ्जलयः ( हस्तसम्पुटार) यः, तैः, तादृशः विटपः= शाखाभिः, उपास्यमानं = सेव्यमानम्, इव । रूपकम्, उत्प्रेक्षा चेति द्वयोरङ्गाङ्गिभावेन सङ्करः।।
उटजेति । उटजानाम् ( पर्णशालानाम् ) अजिरेषु (प्राङ्गणेषु ), प्रकीर्णाः ( प्रसारिताः) अतः शुष्यन्तः ( शोषं प्राप्नुवन्तः ) श्यामाकाः (धान्यविशेषाः ) यस्मिन्, तम् ।।
उपसंगृहीतेति । उपसंगृहीतानि ( उपसंग्रहविषयीकृतानि ) आमलकानि (धात्रीफलानि ) लवल्यः ( लताविशेषाः, लक्षणया तत्फलानि )। कर्कन्ध्वः ( बदर्यः लक्षणया बदरीफलानि ) कदल्यः रम्भाः, लक्षणया कदलीफलानि, भाषायां "केला" नामकानि, लकुचानि (लिकुचानि, भाषायां "बड़हर" नामकफलानि) चूतानि (आम्रफलानि) पनसानि (पनसफलानि, भाषायां "कटहर" नामकफलानीति भावः ) तालीफलानि (तृणराजफलानि, भाषायां ताडनामकानीति भावः ), यस्मिस्तम् । “कर्कन्धूबंदरी कोलि:" "लकुचो लिकुचो डङ्गः" इति "पनसः कण्टकिफल" इति चाऽमरः । अध्ययनमुखरबटुजनम् = अध्ययनेन (वेदादिशास्त्रपठनेन ) मुखराः ( शब्दायमानाः ) वटुजनाः (ब्रह्मचारिजनाः) यस्मिन्, तम् । मण्डलकी पङ्क्तिसे युक्त, अतः मानों जहां तपस्वियोंके दर्शनके लिए आये हुए सप्तर्षि-परम्परा प्रवेश कर रही है। रातमें खिले हुए कुमुदसमूहको मानों ऋषियोंकी उपासना करनेके लिए उतरते हुए ग्रहगणको धारण करती हुई बाबलियोंसे घिरा हुआ, वायुसे जिसका अग्रभाग झुकाया गया है ऐसी वनलताओंसे प्रणाम किया गया-सा, पल्लवरूप अञ्जलिको जोड़े हुए वृक्षोंसे उपासना किये गयेके समान, जहां पर्णशालाके आंगनमें सवाधान्य सुखाया जा रहा था, जहांपर आंबला, लवली, बेर, केला, बड़हर, आम, कटहर और ताड़ ये सब फल संगृहीत थे, अध्ययनसे मुखर (शम्द करनेवाले ) बटुजनोंसे युक्त, जहांपर लगातार सुननेसे ग्रहण किये गये वषट् ( शब्द ) से वाचाल शुकसमूह