________________
१२२
कादम्बरी कुक्कुटोपभुज्यमान-वैश्वदेवबलिपिण्डम्, आसन्न-वापी-कलहंसपोत-भुज्यमान-नीवारवलिम्, एणी-जिह्वापल्लवोपलिह्यमानमुनिबालकम्, अग्निकार्यार्द्धदग्धमिसमिसायमान-समित्कुशकुसुमम्, उपल-भग्ननालिकेर-रसस्निग्धशिलातलम्, अचिर-क्षुण्ण-वल्कल-रस-पाटलभूतलम्, रक्तचन्दनोपलिप्तादित्यमण्डल-निहित-करवीर-कुसुमम्, इतस्ततो विक्षिप्त-भस्मलेखा-कृतमुनिजनभोजन-भूमिपरिहारम्, परिचित-शाखामृग-कराकृष्टि-निष्कास्यमान-प्रवेश्यमान-जरदन्ध
अनवरतेत्यादिः = अनवरतं (निरन्तरम् ) श्रवणगृहीताः (आकर्णनस्वीकृताः ) ये वषट्काराः ( हविर्दानोच्चारणशब्दाः ) तैः वाचालं ( जल्पाकम् ) शुककुलं ( कोरसमूहः ) यस्मिन्, तम् ।
अनेकेति । अनेकसारिकाभिः (बहुपीतपादाभिः पक्षिणीमिः, भाषायां "मैना" नामधेयामिरिति माव: ) उद्देष्यमाणम् ( उच्चस्वरेण पठ्यमानम् ) सुब्रह्मण्यं ( मन्त्रविशेषः ) यस्मिन्, तम् ।
अरण्येति । अरण्यकुक्कुटः ( वनचरणायुधः, पक्षिविशेषः) उपभुज्यमानः ( भक्ष्यमाणः ) वैश्वदेवबलिपिण्ड: ( विश्वदेवोद्देशेन दीयमानः पूजान्नपिण्ड: ) यस्मिन्, तम् ।
आसनेति । आसन्ना ( निकटवर्तिनी ) या वापी ( दोधिका ) तस्यां ये कलहंसपोताः (कादम्बपक्षिशावकाः ) तैः भुज्यमानः (भक्ष्यमाणः) नीवारबलि: ( मुन्यन्नपूजापदार्थः) यस्मिन्, तम् ।
एणोति । एणीनां ( हरिणीनाम् ) जिह्वापल्लवः ( रसनारूपकिसलयः) उपलिह्यमाना: ( संस्पृश्यमानाः ) मुनिबालकाः ( तपस्विकुमाराः ) यस्मिन्, तम् ।
अग्नोति । अग्निकायें ( होमे ) अर्धदग्धानि ( सामिमस्मीभूतानि ) अतः मिसमिसायमानानि ( मिसमिसेतिध्वनि कुर्वाणानि ) समित्कुशकुसुमानि ( इन्धनदर्मपुष्पाणि ) यस्मिन्, तम् ।
उपलभग्नेति । उपलैः (पाषाणः) भग्नानि ( आमदितानि) यानि नालिकेराणि (लाङ्गलीफलानि ) तेषां रसः ( द्रवः ), तेन स्निग्धानि ( स्नेहयुक्तानि, चिक्कणानीति भावः ) शिलातलानि (प्रस्तरतलानि ) यस्मिन्, तम् ।
अचिरेति । अचिरक्षुण्णानि ( तत्कालचूर्णितानि, वृक्षेभ्यो निःसारितानीति भावः ) यानि वल्कलानि ( वल्कानि, वृक्षत्वच इति भावः ) तेषां रसः (निर्यासः ) तेन पाटलं ( श्वेतरक्तम् ) भूतलं (भूमितलम् ) यस्मिन्, तम् ।
रक्तति । रक्तचन्दनेन ( पत्त्राङ्गेन ) उपलिप्तम् ( उपलेपनविषयीकृतम् ) यत् आदित्यमण्डलं (सूर्यमण्डलम्) तस्मिन् निहितानि (स्थापितानि) करवीरकुसुमानि ( हयमारकपुष्पाणि ) यस्मिन्, तम् ।
इतस्तत इति । इतस्ततः = यत्र तत्र, सार्वविभक्तिकस्तसिः। विक्षिप्तत्यादिः = विक्षिप्ता ( रचिता ) या भस्मलेखा ( भूतिपङ्क्तिः ), तया कृतः (विहितः ) मुनिजनानां ( तापसजनानाम् ) भोजनभूमेः ( भक्षणस्थानस्य ) परिहारः ( निषेधः, अन्यजनप्रवेशस्येति भावः ) यस्मिस्तम् । परिचितेत्यादि: = परिचिताः ( संस्तुताः ) ये शाखामृगाः ( वानराः), तेषां कराकृष्टया ( हस्ताकर्षणेन) केचित् निष्कास्यमानाः ( वहिर्नीयमानाः ) केचिच्च प्रवेश्यमानाः (क्रियमाणप्रवेशाः ) जरन्तः ( जीर्णाः, वृद्धा इति भावः) अन्धाः ( दर्शनविकलाः ) तापसाः ( तपस्विनः ) यस्मिन्, तम् । थे, अनेक मैनाओंसे जहांपर सुब्रह्मण्य ( मन्त्रविशष ) पढ़ा जा रहा था, जहाँपर जङ्गली मुर्गे वैश्वदेवका बलिपिण्ड खा रहे थे, पासकी बावलीमें कलहंसके बच्चे नीवारबलि खा रहे थे। मृगियां पल्लवकी समान जीभसे मुनिबालकोंको चाट रही थीं, अग्निकार्य ( हवन ) में आधा जले हुए समिधा, कुश और फूलोंका "मिस मिस" शब्द हो रहा था, पत्थरोंसे तोड़े गये नारियलके रससे शिलातल स्निग्ध (चिकना) था, थोड़ी देर पहले छोड़े गये वल्कलके रससे भूतल गुलाबी हो गया था, रक्त चन्दनसे उपलिप्त सूर्यमण्डलमें करवीरके फूल चढ़ाये गये थे। यत्र तत्र रचित भस्मरेखासे तपस्वियोंकी भोजनभूमिमें औरोंके आनेमें निषेध कर दिया था, परिचित (पालतू) बन्दरोंके हाथके आकर्षणसे कुछ बुड्ढे और अन्धे तपस्वी निकाले जा रहे थे और कुछ प्रवेश कराये जा रहे थे, हाथीके बच्चोंसे आधा