________________
कादम्बरी
मारीचमायामृगावलून-प्ररूढ - वीरुद्दलाभिः, दाशरथि - चाप - कोटि-क्षत - कन्द गर्त्तविषमित-तलाभिः, दण्डकारण्यस्थलीभिरुपशोभितप्रान्तम्, आगृहीतसमित्कुशकुसुममृद्भिः अध्ययन मुखर-शिष्यानुगतैः सर्वतः प्रविशद्भिः मुनिभिरशून्योपकण्ठम्, उत्कण्ठितशिखण्डिमण्डल-श्रूयमाणजल-कलशपूरणध्वानम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिः, उद्धूयमान- धूम-लेखाच्छलेनाबद्धयमान स्वर्गमार्ग-गमन-सोपान - सेतुमिवोपलक्ष्यमाणम्, आसन्नवर्तनीभिस्तपोधन-सम्पर्कादिवापगतकालुष्याभि:, तरङ्ग-परम्परा-संक्रान्त-रविबिम्ब
१२०
मारीचः ( राक्षसविशेषः, ताडकापुत्रः ) एव मायामृग: ( कपटहरिणः, हरिणवेषधारीति भावः ), तेन प्राक् अवलूनानि (छिन्नानि ) पश्चात् रूढानि ( उत्पन्नानि ) वीरुधां ( प्रतानिनीनां लतानाम् ) दलानि ( पत्त्राणि ) यासु, ताभि: । दाशरथीत्यादिः ० - दाशरथिः ( दशरथपुत्रो रामः, दशरथस्याऽपत्यं पुमान्, "अत इन्” इति सूत्रेण इञ्प्रत्ययः ) । तस्य ( दाशरथे: ) या चापकोटि : ( धनुरग्रभागः ) तया क्षता: ( उत्खाताः ) ये कन्दाः ( मूलानि ) तेषां गर्ता : ( भूमिविवराणि ), तै: विषमितम् ( उन्नताऽऽनतम् ) तलम् ( अधोभागः ) यासु, ताभिः । तादृशीभिः दण्डकारण्यस्थलीभिः = दण्डकवनाऽकृत्रिमभूमिभिः । उपशोभितप्रान्तम् = उपशोभितः ( उपशोभां प्रापितः ) प्रान्त: ( पश्चाद्भागः ) यस्य तम् ।
गृहीतेति । आगृहीताः ( आत्ता: ) समिध: ( इन्धनानि ) कुशाः ( दर्भा: ) कुसुमानि ( पुष्पाणि ) मृदः ( मृत्तिका: ) यैस्तैः, “मुनिभिः" इत्यस्य विशेषणम् । अध्ययनमुखरशिष्याऽनुगतैःअध्ययनेन ( वेदपारायणेन ) मुखरा: ( शब्दायमाना: ) ये शिष्या : ( छात्राः ) तै: अनुगतैः ( अनुसृतैः), सर्वतः = अभितः प्रविशद्भिः = प्रवेशं कुर्वद्भिः, मुनिमि: = मननशीलैः तपस्विभिः, 'अशून्योपकण्ठम् = अशून्य: ( अरहितः, युक्त इति भावः ) उपकण्ठः ( समीपदेशः ) यस्य, तम् । उत्कण्ठितेत्यादिः ० = उत्कण्ठिता: ( मेघध्वनिभ्रान्त्या उत्कण्ठायुक्ताः ) एतादृशा ये शिखण्डिन: ( मयूराः ) तेषां मण्डलं ( समूहः ) तेन श्रूयमाण: ( आकण्यमानः ) जलेन ( सलिलेन ) कलशपूरणस्य ( कुम्भपूरणस्य ) ध्वानः ( शब्दः ) यस्मिस्तम् ।
अनवरतेति । अनवरतम् ( निरन्तरं यथा तथा ) या आज्याहुति: ( घृतहवनम् ) तया प्रीतैः ( तर्पितैः ) चित्रभानुभि: ( अग्निभिः, दक्षिणाऽग्नि गार्हपत्याऽऽहवनीयनामकैरिति भावः ) सशरीरम् ( सदेहम् ) एव, मुनिजनम् = तापसवर्गम्, अमरलोकं = स्वर्गं निनीषुभिः = नेतुमिच्छद्भिः, उद्भूयमानेत्यादिः ० = उद्भूयमाना ( संचार्यमाणा, वायुवशादिति शेषः ) या घूमलेखा ( अग्निध्वजपङ्क्ति: ) तस्याश्छलेन ( कपटेन ), आबद्धघमानेत्यादि : ० = आबद्ध्यमानम् ( विरच्यमानम् ) स्वर्गमार्गे ( देवलोकपथे ) गमनस्य ( प्राप्तेः ) सोपानसेतुम् ( आरोहणालिम् ) इव, उपलक्ष्यमाणं = उत्प्रेक्षाऽलङ्कारः ।
व्यज्यमानम्,
आसन्नेति । आसन्नवर्तिनीभिः = समीपस्थायिनीभिः, तपोधनसंपर्कात् = तपोधनानां ( तपस्विनाम् ) संपर्कात् ( सम्बन्धात् ) इव, अपगतकालुष्याभिः - अपगतं ( दूरीभूतम् ) कालुष्यं ( पापभाव: ) यासां ताभिः तरङ्गेत्यादि: ० = तरङ्गपरम्परासु (ऊमिप क्तिषु) संक्रान्ता ( प्रतिबिम्बिता ) रविबिम्बस्य बिरंगी, खिली हुई कमलिनीसे लाल, मायामृगसे चर्वित और उगे हुए फैली हुई लताओंके पत्तों से युक्त, रामचन्द्रके धनुष्की नोंकसे उखाड़े गये कन्दाके गड्ढोंसे विषमित तलवाली ऐसी दण्डकारण्यकी स्थलियों ( अकृत्रिम भूमियों )से शोभित प्रान्त ( पिछल भाग) वाला, जिसका समीपस्थान समिधा, कुश और मिट्टीको लिये हुए अध्ययनसे मुखर ( शब्द करनेवाले ) शिष्योंसे अनुगत, सब ओरसे प्रवेश करनेवाले मुनियोंसे अशून्य ( सहित ) था, उत्कण्ठित मयूरोंसे जहां पर जलसे कलशके भरनेका शब्द सुना जा रहा था, निरन्तर घीकी आहुतिसे प्रसन्न, मानों मुनिजनोंको शरीरके साथ देवलोकको पहुंचानेकी इच्छा करनेवाले, इवासे फहराई गई धूमपङ्क्तिके बहानेसे स्वर्गमार्गमें जानेकी सीढ़ियोंका पुल बांधते हुएसे दक्षिणाग्नि आदि अग्नियोंसे युक्त देखा जा रहा था, निकटमें रहनेवाली मानों तपस्वियोंके सम्पर्क से जिसकी कलुषता ( अस्वच्छता वा पाप) नष्ट हो गई है, तरङ्गोंकी पङ्क्तिमें संक्रान्त सूर्य