________________
कथामुखे-शुकदशावर्णनम्
१०९ कलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । अहो ! सोढपितृमरणशोकदारुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते । खल हि खलु में हृदयम् । अहं हि लोकान्तरगतायामम्बायां नियम्य शोकावेगमा प्रसव-दिवसात् परिणतवयसापि सता तातेन तेस्तैरुपायः संवर्द्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत् परिपालितः, तत्सर्वमेकपदे विस्मृतम् । 'अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि तातं कापि गच्छन्तमद्याऽपि नानुगच्छन्ति । सर्वथा न कञ्चिन्न खलीकरोति जीवित-तृष्णा, यदीदृगवरथमपि मामयमायासयति जलाभिलाषः । मन्ये चागणित-पितृमरण-शोकस्य निघृणतेव केवलमियं मम सलिलपानबुद्धिः । अद्यापि दूर एव यत्, अहं = पुत्रः, अविकलेन्द्रियः = अविकलानि (प्रातिस्विकविषयग्रहणसमर्थानि ) इन्द्रियाणि ( हृषीकाणि ) यस्य सः । तादृशः सन्, पुनरेव = भूय एव, प्राणिमि = श्वसिमि । अकरुणं = दयारहितम्, अतिनिष्ठरम् =अतिशयकठोरम्, अकृतज्ञम् अकृतवेदिनं, कृतघ्नमिति भावः। तादृशं मां, धिक, "षिगुपर्यादिषु त्रिषु" इति घिग्योगे "माम्' इत्यत्र द्वितीया ।
____अहो इति । अहो = आश्चर्यम् । येन, मया, सोढेत्यादिः० = सोढः ( मर्षितः ) यः पितृशोकः ( जनकमरणमन्युः ), तेन दारुणां ( भीषणं, यथा तथा ) जोव्यते = प्राणधारणं क्रियते, उपकृतम् अपि =पितकृतोपकारोऽपि, न अपेक्ष्यतेनाऽपेक्षाविषयीक्रियते। हि = यतः, मेमम, हृदयं चित्तं, खलं = कृतघ्नमिति भावः ।।
स्वहृदयस्य खलत्वं साधयति-मयेति । हि = यतः, अम्बायां= मम जनन्यां, लोकान्तरगतायां = लोकान्तरम् (परलोकम् ) गतायां ( प्राप्तायाम् ) सत्यां, शोकवेग = मन्युजवं, नियम्य = निरुध्य, आ प्रसवदिवसात् = जन्मदिनात् आरभ्य, परिणतवयसा = परिणतं (पक्वं, जीर्णमित्यर्थः ) वयः ( अवस्था ) यस्य, तेन, वृद्धेन, इति भावः, सता अपि = भवता अपि, तातेन, तस्तैः = अनेकप्रकारः, उपायः= जीवनधारणप्रकारः, स्नेहवशात् = वात्सल्यवशात्, अतिमहान्तम् अपि = अतिशयाऽधिकम् अपि, संवद्धनक्लेशं = मत्सम्पोषणदुःखम्, अगणयता = क्लेशत्वेन अचिन्तयता, तातेन = पित्रा, यत्, अहं, परिपालितः = परिरक्षितः, तत् सर्व-तत् सकलम् एकपदे=अकस्मात्, विस्मृतं विस्मृतं कृतम् ।
अतिकृपणा इति । अमी= एते, प्राणा:= मम असवः, अतिकृपणाः = अत्यन्तमनुदाराः, खलुनिश्चयेन । यत् उपकारिणम् अपि = उपकारशीलम् अपि । अद्य = अस्मिन् दिने क्वाऽपि = कुत्राऽपि स्थाने, गच्छन्तम् अपि = वजन्तम् अपि तातं-पितरम्, न अनुगच्छन्ति = न अनुव्रजन्ति । सर्वथा-सर्वः प्रकारः, जीविततृष्णा = जीवनाऽभिलाषः, कश्चित् = कमपि पुरुषं, न खलीकरोति ( इति ) न =न दुर्जनीकरोति इति न "द्वो नजो एक प्रकृताऽथं द्योतयत" इति नयेन जीविततृष्णा सर्वमपि जनं दुर्जनीकरोत्येवेतिमावः । अखल: खल: यथा सम्पद्यते तथा करोति खलीकरोति, “कृम्वस्तियोगे संपद्य कर्तरि च्विः" इति अभूततद्भावे च्विः । यत् = यस्मात् हेतोः, ईदृगवस्थम् अपि = एतादृशदशास्थितम् अपि, जनकनिधनेन शोकपरवशमपीतिमावः, मां, जलाभिलाषः = सलिलपानतर्षः । आयासयति = आयासयुक्तं करोति ।
___मन्य इति । अगणितपितृमरणशोकस्य - अगणितः ( अचिन्तितः ) पितृमरणशोकः ( जनकपर भी जो अविकल (स्वकार्यमें समर्थ) इन्द्रियोंवाला मैं जी रहा हूँ। निर्दय अति निष्ठुर और कृतघ्न मुझे धिक्कार है। जो मैं पितृमरणका शोक भी सहकर अतिशय कठोरतासे जी रहा हूँ, उनके उपकारकी भी अपेक्षा नहीं कर रहा हूँ। मेरा हृदय दुष्ट है। मेरी माताके परलोक जानेपर भी शोकवेगको दबाकर वृद्धावस्थामें रहते हुए भी उन-उन उपायोंसे पुत्रको बढ़ानेमें अत्यधिक क्लेशकी भी स्नेहवश परवाह न करनेवाले पिताजीने जो मेरा परिपालन किया वह सब मैं एकबारगी ही भूल गया। ये मेरे प्राण अत्यन्त ही अनुदार हैं, जो कि उपकारी पिताजीके कहीं ( लोकान्तरमें) जानेपर भी जो अनुगमन नहीं करते हैं। जीवनकी तृष्णा किसीको भी दुर्जन नहीं