________________
कादम्बरी सरस्तीरम् । तथाहि-जलदेवतानुपूर-रवानुकारि दूरेऽद्यापि कलहंस-विरुतम् अस्फुटानि श्रूयन्ते सारससितानि, अयं च। विप्रकर्षादाशामुखविसर्पण-विरल: सञ्चरति नलिनी-षण्डपरिमल: । दिवसस्य चेय कष्टा दशा वर्तते । तथाहि-रविरम्बरतलमध्यवर्ती स्फुरन्तमातपमनवरतमनल. धूलि-निकरमिव विकिरति करैः, अधिकामुपजनयति तृषम्। सन्तप्त-पांसु-पटल-दुर्गमा भूः, अतिप्रबल-पिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि । अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्यैव उपपादयेत् ?
निधनमन्युः ) येन सः तस्य। मम, केवलम् =एकमात्रं यथा, इयम् = एषा, सलिलपानबुद्धिः= जलपानाऽभिलाषः, निपुणता = निरनुकम्पा, एव । अद्यापि = अधुनाऽपि, सरस्तीरं = कासारतटम्, दूरे एव= विप्रकृष्टप्रदेश एव, अस्तीति शेषः ।
दूरत्वमुपपादयति-तथाहीति । तथा हि, जलदेवतेत्यादिः = जलदेवतानां ( सलिलाऽधिष्ठात्रीणां देवीनाम् ) नपुराणां (पादाऽङ्गदानाम् ) यो रवः ( ध्वनिः ) तदनुकारि ( तदनुकरणशीलम् ), "पादाऽङ्गदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम् ।" इत्यमरः । तादृशं कलहंसविरुतं = कलहंसानां (कादम्बानाम् ) विरुतम् ( कूजितम् ) । अद्याऽपि = अधुनाऽपि, दूरे = विप्रकृष्टप्रदेशे । अस्फुटानि = अव्यक्तानि, सारसरसितानि = सारसानां (पुष्कराह्वानां) रसितानि ( कूजितानि ), "पुष्कराह्वस्तु सारसः" इत्यमरः । श्रूयन्ते = आकर्ण्यन्ते । विप्रकर्षात् = दूरात्, आशामुखविसर्पणविरल: = आशामुखेषु = दिङ्मुखेषु, यत् विसर्पणं ( प्रसरणम् ) तेन विरल: ( न्यूनः ), नलिनीखण्डपरिमल: = नलिनीखण्डानां (कमलिनीसमूहानाम् ) परिमल: ( विमर्दनजनितो गन्धः ), सञ्चरति % प्रसरति । दिवसस्य = दिनस्य च, इयम् = एषा, कष्टा = दुःखरूपा, दशा= अवस्था, वर्तते विद्यते, मध्याह्नसमयोऽस्तीति भावः । एतदुपपादयति-तथाहीति । अम्बरतलमध्यवर्ती = अम्बरतलस्य ( आकाशतलस्य ) मध्यवर्ती ( मध्यगामी) सन् । रविः = सूर्यः, अनवरतम् = निरन्तरम् । स्फुरन्तं-दीप्यमानम्, आतपं = तेजः, अनलवलिनिकरम् इव = अग्निपूर्णसमूहम् इव, करः = किरणः, हस्तैश्च, "बलिहस्तांsशवः करा:' इत्यमरः, उपमा । विकिरति = विक्षिपति । अधिकां=प्रबलां, तृषं = पिपासाम्, उपजनयति = प्रकटयति । भूः = भूमिः, सन्तप्तपांसुपटलदुर्गमा = सन्तप्तम् ( उष्णम् ) यत् पांसुपुटलं (धूलिसमूहः ) तेन दुर्गमा ( दुःखेन गन्तुं शक्या ) अस्तीति शेषः ।
_ अतिप्रबलेति । अतिप्रबला ( अत्यधिका ) या पिपासा ( तृष्णा )। तया अवसन्नानि (क्लान्तानि ), मे = मम, अङ्गकानि = देहाऽवयवाः, अल्पम् अपि = स्तोकम् अपि, गन्तुं = चलितुं, न अलंनो समर्थानि । किं बहुना-आत्मनः = देहेन्द्रियसंघातस्य, अपि, अप्रभुः = असमर्थः, अस्मि, आत्मनो हस्तपादादि चालयितुमपि असमर्थोऽस्मीति भावः। मे= मम, हृदयं = चित्तं, सीदति = अवशीर्यते ।
बनातीहै यह बात नहीं है ( अर्थात् दुर्जन बनाती है ), जो कि ऐसी दशावाले मुझको भी जलका अभिलाष आयासयुक्त बनाता है। पितृमरणके शोककी भी परवाह न करनेवाले मेरी यह जल पीनेकी इच्छा केवल निर्दयता है, मैं ऐसा मानता हूँ। अभी तालाबका किनारा दूर ही है। जैसे कि जलदेवताके नूपुर (छागल ) के शब्दके सदृश हंसको आवाज अभी भी दूर ही है । सारसके अस्पष्ट शब्द सुने जा रहे हैं। यह दूरसे दिशामुखोंमें फैलनेसे न्यून कमलसमूहको सुगन्ध फैल रही है। दिनकी यह दुःखरूप दशा (मध्याह्न समय ) है। जैसे कि सूर्य आकाशमण्डलके मध्यस्थित होकर चमकती हुई धूपको अग्निचूर्णके समूहके समान करों (किरणां ) और हार्थोसे बिखेर रहे हैं, अत्यन्त पिपासाको पैदा कर रहे हैं । सन्तप्त धूलिसमूहसे भूमि दुर्गम हो रही है। अतिशय जबर्दस्त प्याससे क्लान्त मेरे अङ्ग कुछ भी चलनेके लिए समर्थ नहीं हैं। मैं अपने शरीरको संभालनेमें असमर्थ हूँ । मेरा हृदय विशीर्ण हो रहा है। नेत्र अन्धकार भावको प्राप्त कर रहा है। आज ही इच्छा न करनेपर भी दुर्जन विधाता मेरी मृत्यु कर डालेगा क्या ?