________________
१०८
कादम्बरी भयचकितया दृशा दिशोऽवलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुमूलात् सलिल-समीपं सतुं प्रयत्नमकरवम् ।
अजातपक्षतया नातिस्थिरतर-चरण-सञ्चारस्य मुहुर्मुहुर्मुखेन पततो मुहुस्तिर्यनिपतन्तमात्मानमेकया पक्षपाल्या सन्धारयतः क्षितितलसंसर्पण-भ्रमातुरस्य अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुनमुखस्य, स्थूलस्थूलं श्वसतो धूलिधूसरस्य संसर्पतो ममाभून्मनसिअतिकष्टास्ववस्थास्वपि जीवित-निरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमवि( ग्रीवा ) येन सः । मयचकितया = भयात् ( भीतेः ) चकितया ( त्रस्तया), दृशा = दृष्टया, दिश:काष्ठाः, अवलोक्य = दृष्टा, तणेऽपि =अर्जुनेऽपि. "तणमर्जुनम्" इत्यमरः । चलति = कम्पमाने सति, पुनः - भूयः, प्रतिनिवृत्त:=प्रत्यायातः स वृद्धशबर इति शेषः । इति एवं विमृश्य, पदे पदेप्रतिपदं, तम् एव = पूर्वोक्तम् एव, पापकारिणं = दुष्कृताचारं, वृद्धशबरमिति भावः । उत्प्रेक्षमाणः = संभावयन्, तस्मात् = पूर्वोक्तात्, तमालतरुमूलात् = तापिच्छवृक्षनिम्नभागात्, निष्क्रम्य = निर्गत्य, सलिलसमीपं = जलनिकटं, सतुं = गन्तुं, प्रयत्न = प्रयासम्, अकरवं = कृतवान् ।
अजातेति । मम मनसि समभूदिति सम्बन्धः । अजातपक्षतया-अनुत्पन्नच्छदत्वेन, नाऽतिस्थिरतरचरणसञ्चारस्य% नाऽतिस्थिरतरः (नाऽतिदृढतरः ) चरणसञ्चारः (पादन्यायः ) यस्य, तस्य । अत एव, मुहर्मुहुःवारं वारं, मुखेन = आननेन, पततः पतनं कुर्वतः। मुहुः = भूयोऽपि, तियंकतिरश्चीनं यथा तथा, निपतन्तं = भ्रश्यन्तं, तादृशम्, आत्मानं = स्वम्, एकया = केवलया, "एके मुख्याऽन्यकेवलाः" इत्यमरः । पक्षपाल्या= छदपङक्तया, "पालि: कर्णलताग्रेऽश्री पङ्क्तावकप्रभेदयोः ।" इति मेदिनी। संधारयतःपतनाद्रक्षां विदधतः, क्षितितलेत्यादि: =क्षितितले (भूतले) यत् संसर्पणं ( गमनम् ), तेन यो भ्रमः (भ्रान्तिः ) तेन आतुरस्य ( पीडितल्य ), अनभ्यासवशात् = अभ्यासाऽमाववशात्, एकम् अपि, पदं = चरणं, दत्त्वा =निवेश्य, अनवरतं = निरन्तरम्, उन्मुखस्यऊवंवदनस्य, श्रमादिति शेषः । स्थूलस्थलं = दीर्घ दीर्घ यथा तथा, श्वसतः = श्वासमोक्षं कुर्वतः, धूलिधूसरस्य = पांसुधूम्रवर्णस्य, संसर्पतः = संसर्पणं कुवंतः, मम, मनसि-चित्ते, समभूत् = एतादृशो वक्ष्यमाण प्रकारो विचारनिचयोऽजायत इति भावः ।
__तमेव प्रतिपादयति-अतिकष्टास्विति । जगति = लोके, प्राणिनां = जन्तूनां, प्रवृत्तयः = प्रवर्तनरूपाः क्रियाः, अतिकष्टासु = अतिशयकठिनासु, अवस्थासु = दशासु, अपि, जीवितनिरपेक्षा:जीविते ( जीवने ) निरपेक्षाः ( अपेक्षारहिताः, निःस्पृहा इति भावः ) न भवन्ति = नो विद्यन्ते ।
नास्तीति । इह = अस्मिन्, जगति = लोके । सर्वजन्तूनां = सकलप्राणिनां, जीवितात् = जीवनात्, मन्यत् = अपरम्, अभिमततरम् = अभीष्टतरम्, नाऽस्ति =नो विद्यते। उक्ताऽर्थमुपपादयतिएवमिति । एवं पूर्वोक्तप्रकारेण, सुगृहीतनाम्नि = प्रातःस्मरणीयनामधेये, “अथ यः प्रातः स्मयते शुभकाम्यया । स सुगृहीतनामा स्या" दिति त्रिकाण्डशेषः । ताते = पितरि, उपरतेऽपि = मृतेऽपि, दिशाओं को निहारकर पत्तेके चलनेपर भी वह ( पापी) फिर लौट आ गया इस प्रकार पग-पगमें संभावना करता हुआ मैं उस तमालके पेड़के अधोभागसे जलके समीप जानेका प्रयत्न करने लगा। पंखोंके न उगनेसे और पैरोंसे चलनेमें भी अति स्थिरता न होनेसे वारंवार मुंहसे गिरते हुए और वारंवार तिरछा गिरते हुए अपनेको एकमात्र पक्षपङ्क्ति सँभालता हुआ जमीनपर सरकनेसे भ्रमसे आकुल, अभ्यास न होनेसे एक पग चलकर भी लगातार ऊपर मुख किये हुए लम्बा-लम्बा श्वास लेते हुऐ और धूलसे धूसर और सरकते हुए मेरे मनमें ऐसा विचार हुआ-"अत्यन्त कष्टपूर्ण अवस्थाओंमें लोकमें प्राणियोंकी चेष्टाएँ जीवनमें निरपेक्ष (परबाह न करनेवाली) नहीं होती है। लोकमें समस्त जन्तुओंको जीवनसे अधिक अभीष्ट कुछ भी नहीं होता है। इस प्रकार प्रातःस्मरणके योग्य पिताके मरने