________________
कथामुखे-शुकदशावर्णनम्
१०७ किसलयस्य, विन्ध्याटवी-केशपाश-श्रियमुद्वहतः, दिवाप्यन्धकारितशाखान्तरस्य, अप्रविष्ट-सूर्यकिरणमतिगहनपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मलदेशमविशम्।।
अवतीयं च स तेन समयेन क्षितितल-विप्रकीर्णान् संहृत्य तान् शुकशिशूननेकलतापाश-संयतानाबद्ध्य पर्णपुटेऽतित्वरित-गमनः सेनापतिगतेनैव वर्मना तामेव दिशमगच्छत् ।
मान्तु लब्ध-जीविताशंप्रत्यग्र-पितृमरण-शोक-शुष्क-हृदयम् अतिदुरापातादायासितशरीरं सन्त्रास-जाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् ।
अनया च काल-कलया सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य किञ्चिदुन्नमितकन्धरो श्रियं विन्ध्याटव्याः ( विन्ध्यपर्वतवनभूमेः ) केशपाश: ( कुन्तलकलापः ), तस्य धियम् (शोमाम् ) उदहत:- धारयतः, अत्र निदर्शना। दिवाऽपि दिवसेऽपि अन्धकारितशाखाऽन्तरितस्य = अन्धकारितानि ( संजाताऽन्धकाराणि, भास्करकरप्रवेशामावादिति शेषः ) शाखान्तराणि (विटपाऽभ्यन्तरप्रदेशाः) यस्य, तस्य । अतिमहतः = अतिशयविशालस्य, तमालविटपिनः = तापिच्छतरोः, अप्रविष्टसूर्यकिरणम् = अप्रविष्टा: ( अकृतप्रवेशाः ) सूर्यकिरणा: ( मास्करकरा: ) यस्मिस्तम् । अतिगहनं = दुर्गमवनाऽतिशायि, अपरस्य = अन्यस्य, पितुः = जनकस्य, उत्सङ्गम् इव - अङ्कम् इव, अत्रोत्प्रेक्षा। मूलदेशं = बुघ्नप्रदेशम्, अविशं = प्रविष्ट: । अत्रोपमोत्प्रेक्षयोः सङ्कराऽलङ्कारः ।
अवतीर्य = अवरुह्य च, सः = वृद्धशबरः, तेन, समयेन = कालेन, क्षितितलविप्रकीर्णान् = मितितले (भूतले) विप्रकोर्णान् (इतस्ततः पर्यस्तान्) तान्, शुकशिशून-कीरशावकान्, संहृत्य-एकोकृत्य, एकलतापाशसंयतान् -एका ( एकका) या लता ( वल्ली) तस्याः पाशः (बन्धनरज्जुः), तेन संयतान् (बद्धान् ) कृत्वेति शेषः । पर्णकुटे-पत्त्रपुटे, आबद्धय = बन्धनं कृत्वा, अतित्वरितगमनः - अतित्वरितम् ( अतिशयशीघ्रं ) गमनं (गतिः ) यस्य सः । तादृशः सन्, सेनापतिगतेन एव = शबरपृतनानायकयातेन एव, वमना = मार्गण, ताम् एव दिशं = सेनापतिगताम् एव काष्ठाम्, अगच्छन् == अवजत् ।
मां विति । लब्धजीविताऽऽशं लब्धा ( प्राप्ता ) जीविताऽऽशा ( जीवनसंभावना ) येन, तम् । प्रत्यग्रेत्यादि: %प्रत्यय: ( अभिनवः, सद्योमव इति भावः ) यः पितृमरणशोक ( जनकनिधनमन्युः ), तेन शुष्कं (प्राप्तशोषम् ) हृदयं (चित्तम् ) यस्य, तम् । अतिदूरपातात् = अतिविप्रकृष्टस्थलपतनात् । बायसितशरोरम् = आयासितं ( परिश्रान्तम् ) शरीरं (देहः ) यस्य, तम् । तादृशं माम् । संत्रासजाता = अतिशयमयोत्पन्ना। सर्वाऽतोपतापिनो= सकलदेहाऽवयवसन्तापकारिणी। बलवती=शक्तिसम्पन्ना, पिपासा=जलतृष्णा, परवशं स्वायत्तम्, अकरोत् व्यदधात् ।
बनयेति । अनया = एतया, निकटप्रतिपादितयेति भावः । कालकलया समयकदेशेन, सुदूरम् - अतिविप्रकृष्ट प्रदेशम्, अतिक्रान्तः =प्रयातः, सः पूर्वोक्तः, पापकृत् = दुष्कृताचारः, इति = एवं, परिकलय्य = परिकलनां कृत्वा, किञ्चित् = स्तोकम्, उन्नमितकन्धरः = उन्नमिता (ऊर्वीकृता ) कन्धरा
मानों निर्मल यमुनाके जलके खण्डोंसे रचित पत्तोंवाले, जङ्गली हाथीके मदसे सिक्त पल्लवोंवाले, विन्ध्यवनभूमिके केशपाशको शोभाको धारण करते हुए, दिनमें भी जिसकी शाखाका भीतरी भाग अन्धकार युक्त था। और जिसमें सूर्यको किरणोंका प्रवेश नहीं होता था। ऐसे अत्यन्त गहन, दुमरे पिताकी गोदके समान तमालपक्षके मूल प्रदेशमें मैंने प्रवेश किया।
उमी समय उतरकर वह (वृद्ध शबर ) जमीनपर बिखरे हुए शुकशावकोंको इकटठा कर एक लतापाशमें बांधकर पोंके दोनोंमें बाँधकर अतिशय शीघ्रगतिमे सेनापतिके गये हुए मागमे उसी दिशामें चला गया। जीनेकी माशासे युक्त, नये पितृमरणके शोकसे मूखा हृदयवाले, अति दूरमे गिरनेमे परिश्रान्त शरीरवाले, मुझको अत्यन्त मयसे उत्पत्र, समस्त अङ्गोंको सन्तप्त करनेवाली जबर्दस्त प्यासने अधीन कर डाला।
इसी समयमें वह पापात्मा बहुत दूर गया है ऐसा विचार कर गरदनको कुछ ऊँचाकर भयभीत दृष्टिसे