________________
१०६
कादम्बरी यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्ण-पत्त्र-सवर्णत्वादस्फुटोपलक्ष्यमाण-मूत्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनेव केवलमभिभूयमानः किश्चिदुपजाताभ्यां पक्षाभ्यामोषत्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुख-कुहरादिव विनिर्गतमात्मानं मन्यमानो नातिदूरत्तिनः, शबरसुन्दरी-कर्णपूर-रचनोपयुक्त-पल्लवस्य, सङ्कर्षण-पट-नील-च्छाययोपहसत इव गदाधर-देहच्छविम्, अच्छः कालिन्दी-जल-च्छेदैरिव विरचितच्छदस्य, वनकरिमदोपसिक्त
भावस्तत्ता, तया तु । पवनवशपुञ्जितस्य = पवनवशात् ( वायुवशात् ) पुञ्जितस्य (संघातरूपेणाऽवस्थितस्य ) महतः = विपुलस्य शुष्कपत्त्रराशेः = नीरसपर्णसमूहस्य । उपरि = ऊर्ध्वमागे, पतितं = सस्तम्, आत्मानं = स्वदेहम्, अपश्यं = व्यलोकयं, येन = शुष्कपत्त्रराश्युपरिपतनेन हेतुना, मे= मम, अङ्गानि = देहाऽवयवाः । न अशीयंन्त = न चूर्णितानि अभवन् ।
यावदिति । यावत् = यत्कालपर्यन्तम्, असौ =जरच्छबरः, तस्मात् = पूर्वोक्तात्, तरुशिखरात् = शाल्मलीवृक्षोलमागात्, न अवतरति =न अवरोहति । तावत् = तत्कालम् एव, अहम्, अवशीर्णपत्रसवर्णात्वात् = अवशीर्णानि ( पतितानि ) यानि पत्त्राणि (पर्णानि ), तेषां सवर्णत्वात् (समानवर्णत्वात्), "ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु" इति समानस्य समावः । अस्फुटोपलक्ष्यमाणमूर्तिः = अस्फुटम् ( अप्रकटं यथा तथा ) उपलक्ष्यमाणा ( दृश्यमाना) मूर्तिः ( शरीरम् ) यस्य सः । “मूर्तिः काठिन्यकाययोः" इत्यमरः । नृशंस इव = क्रूर इव, उपरतं = मृतं, पितरं = जनकम्, उत्सृज्य = त्यक्त्वा, प्राणपरित्यागयोग्ये प्राणपरित्यागस्य ( असुमोचनस्य ) योग्ये ( उचिते ), काले अपि = समये अपि, बालतया = शिशुत्वेन, कालान्तरभुवः = अन्यसमयभाविनः, प्रौढावऽऽस्थायां भविष्यत इति भावः । तादृशस्य स्नेहरसस्य = वात्सल्यास्वादस्य, अनभिज्ञः =ज्ञानरहितः, जन्मसहभुवा = जन्मनः (उत्पत्तिकालात् ) सहभुवा ( सहजन्मना), मयेन एव भीत्या एव, केवलम् एकमात्रम्, अभिभूयमानः अधिक्रियमाणः, किञ्चित् स्तोकम्, उपजाताभ्याम् उत्पन्नाभ्याम्, पक्षाभ्यां छदाभ्याम्, ईषत् = स्तोक, कृताऽवष्टम्मः= विहिताऽवलम्बः, इतस्ततः= यत्र तत्र, लुठन् = प्रतीघातं कुर्वन्, आत्मानं =स्वं, कृतान्तमुखकुहरात् = कृतान्तस्य ( यमराजस्य ) मुखकुहरात् ( वदनविवरात् ), विनिगंतम् इव =विनिःसृतम् इव, मन्यमानः= जानन्, उत्प्रेक्षाऽलङ्कारः । नातिदूरवर्तिनः = नातिविप्रकृष्टस्थानस्थितस्य, "तमालविटपिन" इत्यस्य विशेषणम्, एवं परत्राऽपि । शबरसुन्दरीत्यादिः = शबरसुन्दरीणां (शबररमणोनाम् कर्णपूराणि (श्रोत्रामरणानि ) तेषां रचना ( निर्माणम् ) तस्याम् उपयुक्तानि ( उपयोगयुक्तानि ) पल्लवानि ( किसलयानि ) यस्य, तस्य । संकर्षणेत्यादि: = संकर्षणः ( बलभद्रः ), तस्य पट: ( वस्त्रम्, ) तस्य नीलच्छायया ( नीलकान्त्या ), गदाधरदेहच्छवि = गदाधरस्य (श्रीकृष्णस्य ) देहच्छविम् ( शरीरकान्तिम् ), उपहसत इव = उपहासं कुर्वत इव, अच्छः = निमलः, कालिन्दीजलच्छेदैः इव = यमुनासलिलखण्ड: इव । विरचितच्छदस्य%Dविरचिताः (निर्मिताः) छदाः (पर्णानि ) यस्य, तस्य । वनकरीत्यादिः०वनकरिणाम् (अरण्यगजानाम् ) मर्दः (दान जल:) उपसिक्तानि ( उक्षितानि ) किसलयानि (पल्लवानि ) यस्य, तस्य । विन्ध्याटवीकेशपाश
जबतक वह ( वृद्धशबर ) उस पेड़की चोटीसे नहीं उतरा, तबतक गिरे हुए पत्तोंके सदृश होनेसे स्पष्ट नहीं देखे जानेवाले शरीरवाला मैं मरे हुए पिताजीको छोड़कर क्रूर-सा होता हुआ प्राण छोड़नेके लिए उचित समयमें भी बालक होनेसे यौवन आदिमें होनेवाले स्नेह रसका जानकार न होकर जन्मके साथ होनेवाले केवल भयसे अभिभूत होता हुआ कुछ उगे हुए पंखोंका कुछ सहारा लेकर इधर-उधर लोट-पोट करता हुआ अपनेको मानो यमराजके मुखके छिद्रसे निकला हुआ समझकर कुछ समीपमें रहे हुए शबरसुन्दरीके कर्णभूषणकी रचनायें उपयुक्त पल्लववाले, बलरामके वस्त्रके नीलेवनके समान नील कान्तिके श्रीकृष्णके देहकी कान्तिको मानों उपहास करते हुए,