________________
कथामुखे – शुकदशावर्णनम्
व्रणाङ्कित-प्रकोष्ठम् अन्तक-दण्डानुकारिणं वामबाहुमतिनृशंसो मुहुर्मुहुर्दत्तचञ्च-प्रहारमुत्कूजन्तमाकृष्य तातं गतासुमकरोत् । मान्तु स्वल्पत्वाद् भयसम्पिण्डिताङ्गत्वात् सावशेषत्वावायुषः कथमपि पक्षसंपुटान्तर - गतं नालक्षयत् । उपरतञ्च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् ।
अहमपि च्चरणान्तरे निवेशित शिरोधरो निभृतमङ्क-निलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पवनवशसंपु तस्य महतः शुष्कपत्त्रराशेरुपरि पतिततमात्मानमपश्यम् । अङ्गानि येन मे नाशीर्य्यन्त ।
१०५
मुजङ्गः ( सर्प: ) तस्य भोग: ( शरीरम् ) स इव मोषण: ( मयङ्करः ) तम् । उपमा । “अहेः शरीरं मोगः स्यात्" इत्यमरः । विविधेत्यादि : ० = विविधाः ( अनेकप्रकाराः ) ये वनवराहाः ( अरण्यशूकरा : ) तेषां वसा ( वपा ) तया विस्रुगन्धि ( आमगन्धि ) करतलं ( हस्ततलम् ) यस्य, तम् । " मेदस्तु वपा वसा।" इति, "विस्रं स्यादामगन्धि यत्" इति चामरः । कोदण्डेत्यादिः ० = कोदण्डगुणस्य ( धनुर्ज्यायाः ) यत् आकर्षणम् ( आक्षेपः ), तेन यो व्रणः ईम् ) तेन अङ्कितः ( चिह्नित: ) प्रकोष्ठ : ( कूर्पराऽधो मागः ) यस्य तम् । गुणपदस्य " प्रत्यचे " ति व्याख्यातॄणां भाषाशब्द संस्कृतभ्रान्तिः । "मौर्वी ज्या शिञ्जिनी गुणः ' " इति व्रणोऽस्त्रियामीर्ममरुः क्लीबे" इति चामर । “कक्षान्तरे प्रकोष्ठः स्यात् प्रकोष्ठः कूर्परादधः । " इति शाश्वतः । अन्तकदण्डाऽनुकारिणम् - अन्तकस्य ( यमस्य ) यो दण्ड: ( लगुड : ) तदनुकारिणम् ( तदनुकरणरशीलम् ) उपमाऽलङ्कारः । तादृशं वामबाहुं = सव्यभुजम्, प्रसायं = विस्तायं मुहुर्मुहुः = वारंवारम् । दत्तचञ्चुप्रहारं = दत्तः ( वितीर्णः ) चञ्चुप्रहारः त्रोटयाघातः ) येन, तम् । उत्कूजन्तम् = उच्चः स्वरेण शब्दायमानं, तादृशं तातं = मज्जनकम्, आकृष्य = आनोय, नीडाद्बहिरिति शेषः । गताऽसुं = प्राणरहितम् । अकरोत् = व्यदधात् ।
मां त्विति । स्वल्पत्वात् = अतिसूक्ष्मत्वात् मयसंपिण्डिताऽङ्गत्वात् = मयात् ( त्रासात् ) पिण्डितानि ( सङ्कुचितानि ) अङ्गानि (शरीराऽवयवाः) यस्य, तस्य भावस्तत्त्वं, तस्मात् | आयुषःजीवनकालस्य, साऽवशेषत्वाच्च = अवशिष्टत्वाच्च कथमपि = केनाऽपि प्रकारेण महता क्लेशनेति भावः । पक्षसंपुटाऽन्तरगतं = पक्षसंपुटस्य ( छदमागस्य पितुरितिशेषः ) । अन्तरगतम् ( अभ्यन्तरप्राप्तम् ), मां तु = वैशम्पायनं तु, न अलक्षयत् = न अपश्यत् ।
उपरतमिति । उपरतं = मृतम्, अत एव शिथिलशिरोधरं = शिथिला ( श्लथा ) शिरोधरा (कन्धरा) यस्य, तम् । अधोमुखम् = अवाङ्मुखम् । तं = मज्जनकम्, अवनितले भूतले, अमुञ्चत् = अक्षिपत् । अहमपीति । अहम् अपि तच्चरणाऽन्तरे = तस्य ( पितुः ) चरणयोः ( पादयोः ) अन्तरे ( मध्ये ), निवेशितशिरोधर : = निवेशिता ( स्थापिता ) शिरोधरा ( ग्रीवा ) येन सः । निभृतं : निश्चलं यथा तथा । अङ्कनिलीनः = अङ्के ( उत्सङ्गे ) निलीन: ( अन्तर्हितः ) सन् तेनैव सह = तातेनैव समम् । अपतम् - पतितः ।
=
अवशिष्टेति । अवशिष्ट पुण्यतया = अवशिष्टं ( साऽवशेषम् ) पुण्यं ( सुकृतम् ) यस्य सः, तस्य
की चर्बी से कच्चे मांसके दुर्गन्ध हाथोंवाले, धनुष्की प्रत्यञ्चाको खींचनेसे हुए व्रणसे चिह्नित केहुनाके अधोगभागवाले और यमदण्डका अनुकरण करनेवाले बाएँ बाहुको फैलाकर बारंबार चोचोंसे प्रहारकर ऊँचे स्वरसे चौखते हुए मेरे पिताजीको खींचकर मार डाला । परन्तु अतिशय छोटा शरीर होनेसे डरसे सिकुड़े हुए अङ्गोंवाला होनेसे और मेरी आयु शेष होनेसे भी किसी प्रकार पिताजीके पंखोंके भीतर रहे हुए मुझे नहीं देखा । मरे हुए और शिथिल गरदनवाले और अधोमुख पिताजी को भूतलपर छोड़ दिया। अपनी ग्रीवा को पिताजीके चरणोंके बीच में रखकर निश्चल होकर उनकी गोदमें छिपा हुआ में भी उन्हीं के साथ गिर पड़ा । पुण्यके अवशेष होनेसे वायुवश इकट्ठे हुए सूखे पत्तोंके ढेरपर गिरे हुए अपनेको मैंने देखा । जिससे मेरे अङ्ग चूर-चूर नहीं हुए।