________________
८७
कथामुखे-शबरसन्यवर्णनम् ___ अथ नातिचिरादेवानुलेपनार्द्र-मृदङ्गध्वनिधीरेण गिरिविवर-विजृम्भित-प्रतिनादगम्भीरेण, शबर-शर-ताडितानां केसरिणां निनादेन, संत्रस्त-यूथ-मुक्तानामेकाकिनाञ्च सञ्चरतामनवरतकरास्फोटमिश्रेण जलधर-रसितानुकारिणा गजयूथपतीनां कण्ठगजितेन, सरभस-सारमेयविलुप्यमानावयवानामालोल-तरल-तारकाणामेणकानाञ्च करुण-कूजितेन, निहितयूथपतीनां वियोगिनीनामनुगत-कलभानाञ्च स्थित्वा स्थित्वा समाकर्ण्य कलकलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्र-पतिविनाशशोकदीर्पण करिणीनां चीत्कृतेन, कतिपय-दिवस-प्रसूतानाञ्च खड्गिधेनुकानां त्रास-परिभ्रष्ट-पोतकान्वेषिणीनामुन्मुक्तकण्ठमारसन्तीनामाक्रन्दितेन, तरुशिखर
अथ - कोलाहलश्रवणाऽनन्तरं, नाऽतिचिरात् एव = अल्पकालेन एव, “सवंतः प्रचलितमिव तदरण्यममवत्" इत्यन्वयः । अनुलपेनाऽऽर्द्रमृदङ्गध्वानधारेण = अनुलेपनेन ( द्रवद्रव्यलेपेन ) आद्रः (क्लिन्नः ) यो मृदङ्गः ( मुरजः ) तस्य ध्वनिः (ध्वानः ) स इव धीरः ( गम्भोरः ). तेन । गिरिविवरेत्यादिः = गिरिविवरेषु ( पर्वतगुहासु ) विजृम्भितः ( विस्तीर्णः ) यः प्रतिनादः ( प्रतिध्वनिः) तेन गम्भीरः ( गभीरः ), तेन । शबरशरताडितानां शबराणां ( म्लेच्छविशेषाणाम् ) शर: ( बाणे ताडितानां ( प्रहृतानाम् ) केसरिणां ( सिंहानाम् ), निनादेन =शब्देन ।
संत्रस्तेति । संत्रस्तयूथमुक्तानां = संत्रस्तम् ( उद्विग्नम् ) यत् यूथं ( समूहः ), तस्मात् मुक्तानाम् ( त्यक्तानाम् ), एकाकिनाम् ( एककानाम् ) च, संचरतां=भ्रमताम्, गजयूथपतीनां = हस्तिसमहनायकानाम्, अनवरतकरास्फोटमिश्रेण = अनवरतं (निरन्तरम् ) यः करास्फोट: (शण्डाऽऽघात: ). तेन मिश्रेण ( संवलितेन ), जलघररसिताऽनुकारिणा = जलधरस्य ( मेघस्य ) यत् रसितं ( गजितम) तदनुकारिणा ( तद्विडम्बनशीलेन, तत्तुल्येनेति भावः ) कण्ठगजितेन = गलबृंहितेन ।
____ सरभसेति । सरमसाः ( वेगयुक्ताः ) ये सारमेयाः ( श्वानाः, सरमाया: = शुन्याः अपत्यानि, "स्त्रीभ्यो ढक्” इति ढक् ), तैः विलुप्यमानाः ( विनाश्यमानाः ) अवयवाः ( अङ्गानि ) येषां तेषाम् । आलोलतरलतारकाणाम् = आलोले ( समन्ताच्चञ्चले ), तरले ( मास्वरे ) तारके ( कनीनिके ) येषां, तेषाम् । एणकानां= मृगाणां च करुणकूजितेन- शोकपूर्णध्वनिना।
निहतेति । निहतयूथपतीनां = निहताः ( व्यापादिताः, आखेटशीरिति शेषः ) यूथपतयः ( समूहनायकाः ) यासां, तासाम् । वियोगिनीनां पतिविरहितानाम्, अनुगतकलभानाम् = अनुगताः (कृताऽनुगमनाः ) कलभाः ( करिशावकाः) यासां, तासाम् । स्थित्वा स्थित्वा, मुहमहरवस्थान कृत्वा । कलकलं = कोलाहलं, समाकण्यं श्रुत्वा, उत्कर्णपल्लवानाम् = उन्नते कर्णपल्लवे ( श्रोत्रकिसलये ) यासां, तासाम् । इतस्ततः = यत्र तत्र, परिभ्रमन्तीनां = परिभ्रमणं कुर्वतीनाम् । ताशीनां करिणीनां = हस्तिनीनां, प्रत्यग्रपतिविनाशशोकदोघेण= प्रत्यग्रः (सद्योमवः) यः पतिविनाशः ( स्वामिमरणम् ) तेन यः शोकः ( मन्युः ) तेन दोघेण ( विस्तृतेन ) चीत्कृतेन = चीत्कारशब्देन ।
कतिपयेति । कतिपयदिवसप्रसूतानां = कतिपये ( कियन्तः ) ये दिवसा: (दिनानि ) : "अपवर्गे तृतीया" इति तृतीया। प्रसूतानां (कृतप्रसवानाम् ), त्रासपरिभ्रष्टपोतकाऽन्वेषिणीनां =
तब कुछ समयके अनन्तर अनुलेपनसे गीले पखावजकी आवाजके समान गम्भीर, पर्वतकी गुफाओंमें फैली हुई प्रतिध्वनिसे गम्भीर, शबरोंके बाणोंसे ताडित सिंहोंके दहाड़से, संत्रस्त गरोहसे बिछुड़े हुए और अकेले चलते हुए लगातार Vड़ोंके प्रहारसे मिश्रित मेघके गर्जनका अनुकरण करनेवाले हाथीके झुण्डोंके नायकोंके कण्ठके गर्जनसे, वेगवाले शिकारी कुत्तोंसे नोचे गये अङ्गोंवाले, अत्यन्त चञ्चल और चमकीली पुतलियोंवाले मृगोंके करुण शब्दसे, मारे गये हाँथियोंके झुण्डके नायकोंकी वियोगिनी एवम् बच्चोंसे अनुगत, तथा रुक रुक कोलाहल शब्द सुनकर कर्णपल्लवोंको ऊँचे करनेवाली घूमती हुई उसी क्षण पतिके विनाशके शोकसे दीर्घ हथिनियोंके चीत्कार शब्दसे, कुछ दिन आगे ब्याई हुई, त्राससे बिछुड़े हुए बच्चोंको ढूँढ़नेवाली और गला फाड़कर चिल्लाती हुई गैड़ियोंके रोदन