________________
८८
कादम्बरी समुत्पतितानामाकुलाकुलचारिणाञ्च पत्त्ररथानां कोलाहलेन, रूपानुसार-प्रधावितानाञ्च मृगयूणां युगपदतिरभसपाद-पाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानाञ्च मदकल-कुररकामिनी-कण्ठकूजितकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, पवनाहतिक्वणितधाराणामसीनाञ्च कठिन-महिष-स्कन्धपीठपातिनां रणितेन, शुनाञ्च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तदरण्यमभवत् ।
त्रासेन ( मयेन ) परिभ्रष्टा: ( नष्टाः ) ये पोतकाः ( शिशवः ), तान् अन्विष्यन्ति ( गवेषयन्ति ) इति तच्छीलास्तासाम् । अतएव उन्मुक्तकण्ठम् = उन्मुक्त: (परित्यक्तः) कण्ठः ( लक्षणया-कण्ठस्वरः ) यस्मिन् कर्मणि तद्यथा तथेति क्रियाविशेषणम् । आरसन्तीनाम् = उच्च दन्तीनां, खडगिधेनकानां= गण्डकसहचरीणां, "गण्डके खङ्गखङ्गिनौ” इत्यमरः । आनन्दितेन = रोदनध्वनिना।
तरुशिखरेति । तरुशिखरसमुत्पतितानां =तरुशिखरेभ्यः ( वृक्षोलमागेभ्यः ) समुत्पतितानाम् ( समुड्डीनानाम् ) आकुलाकुलचारिणाम् = आकुलाकुलम् ( अतिशयाकुलं) यथा तथा चरन्ति ( भ्रमन्ति ) तच्छोलास्तेषाम् । तादृशानां पत्त्ररथानां = पक्षिणां, "पतत्पत्त्ररथाऽण्डजाः" इत्यमरः । कोलाहलेन = कलकलशब्देन ।
रूपेति । रूपाऽनूसारप्रधावितानां = रूपाणाम् (मगाणां, तत्तत्पशनाम् इति भावः, "रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः ) अनुसारेण ( अनुसरणेन) प्रधावितानां ( कृतधावनानाम् ), मृगयूणां = व्याधानां, "व्याधो मृगवधाजीवो मृगयुलुब्धकोऽपि स'' इत्यमरः । युगपत् = एकदा एव, अतिरमसपादपाताऽभिहतायाः = अतिरमसेन ( वेगाऽतिशयेन ) ये पादपाता: (चरणन्यासा: ), तै: अभिहतायाः (ताडितायाः), भुवः = भूमेः । कम्पम् इव = वेपथुम् इव, जनयता = उत्पादयता । चरणशब्देन = पादध्वनिना।
कर्णान्तेति । कर्णान्ताकृष्टज्यानां = कर्णान्तम् (श्रोत्रेन्द्रियपर्यन्तम् ) आकृष्टा ( कृताकर्षणा ) ज्या ( गुणः ) येषां, तेषाम् । मदकलेत्यादिः = मदेन ( मत्तभावेन ) कला: ( मनोहराः ) याः कुररकामिन्यः ( उत्क्रोशमार्याः) तासां कण्ठकूजितं ( गलरुतम् ) तदिव कल: ( अव्यक्तमधुरध्वनिः) तेन शबलितेन (चित्रितेन, मिश्रितेनेति भावः)। अत्रोपमाऽलङ्कारः। शरनिकरवर्षिणां-बाणसमूहवर्षणशीलानां, धनुषां =चापानां, निनादेन - ध्वनिना।
पवनेति । पवनस्य ( वायोः ) आहत्या ( आघातेन ) क्वणिता ( शब्दिता ) धारा ( तीक्ष्णभागः ) येषां तेषाम् । कठिनमहिषस्कन्धपीठपातिनां कठिनाः ( कठोराः) महिषाणां ( लुलायानाम् ) स्कन्धाः ( अंसा: ) एव पीठानि ( स्थलानि ) तेषु पतन्तीति तच्छीलास्तेषाम् ( पतनशीलानाम् ). तादृशानाम् असीनां = खड्गानां, रणितेन = ध्वानेन ।
शनामिति । सरभसविमुक्तघर्घरध्वनीनां = सरमसं (वेगपूर्वकम् ) विमुक्तः ( संत्यक्तः ) घर्घरध्वनिः ( घर्घरेति ध्वनिः ) यः, तेषाम् । शुनां = सारमेयाणां, वनान्तरव्यापिना = काननमध्यव्यापनशीलेन, ध्वानेन = निनदेन, सर्वत:=परितः, प्रचलितम् इव = कम्पितम् इव, तत् अरण्यं = काननम् ! अभवत् - अभूत् । प्रचलितमिवेत्यत्र क्रियोत्प्रेक्षा। शब्दसे पेडोंकी चोटीसे उड़े हुए अति आकुल होकर घूमनेवाले पक्षियोंके कलकल शब्दसे, पशुओंका अनुसरण कर दौडे हुए व्याधोंके एकही वार पादन्यासोंसे ताडिता पृथिवीके मानों कम्पको उत्पन्न करनेवाली चरणध्वनिसे. कानतक खींची गई प्रत्यञ्चावाले मदसे मनोहर कुररोंकी मादाओंके कण्ठ शब्दके समान अव्यक्त मधुरध्वनिसे मिश्रित, बाणोंको बरसानेवाले धनुषांकी टङ्कारध्वनिसे, वायुके आघातसे बजनेवाली धारवाले भैसोंके कठोर कन्धेके स्थानपर पडनेवाले खगोंकी आवाजसे, वेगके साथ घर्घर ध्वनिको निकालने वाले शिकारी कुत्तोंकी वनके भीतर व्याप्त होनेबाली भावाजसे वह जङ्गल मानों चारों ओरसे कम्पित हुआ।