________________
८६
कादम्बरी
विटप - पल्लवपटलम् एतत् खड्गिकुलक्रीडितम् एष नखकोटि - विकटविलिखितविकट-पत्त्रलेखो रुधिरपाटलः करिमौक्तिकदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भ - रुधिर-लोहिनी भूमिः, इयमटवोवेणिकानुसारिणी पक्षचरस्य यूथपतेमंदजलमलिना सञ्चार वीथी, चमरीपङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृग- करीष-पांसुला त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वानः' इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ।
विटपपल्लवानां ( वृक्षकिसलयानाम् ) पटलम् ( समूह: ) । एतत् खड्गिकुलक्रीडितं = खड़ - खड्गिकुलस्य ( गण्डकसमूहस्य ) क्रीडितम् ( क्रीडास्थलम् ) । क्रीडन्ति अस्मिन्निति "क्तोऽधिकरणे च धौव्यगतिप्रत्यवसानार्थेभ्य" इति सूत्रेणाऽधिकरणे क्तप्रत्ययः । एषः, नखकोटीत्यादि : ० = नखकोटिभिः ( नखराऽग्रैः ), विकटा : ( विकृता: ) विलिखिता: ( चित्रिता : ) पत्त्रलेखा : ( पत्त्राकृतिचिह्नानि ) यस्मिन् सः । रुधिरपाटल: = रुधिरेण ( रक्तेन ) पाटल: श्वेतरक्त: ), करिमौक्तिकदलदन्तुरः = करिणां ( हस्तिनाम् ) यानि मौक्तिकदलानि ( मुक्ताखण्डानि ) तैः दन्तुर : ( उन्नताऽऽनतः ) विषम इति भाव: । मृगपतिमार्गः = सिंहपदवी । एषा = समीपतरस्थिता, प्रत्यग्रेत्यादिः ० = प्रत्यग्रप्रसूता ( नवप्रसविनी ) या वनमृगी ( अरण्यहरिणी ) तस्या गर्भ रुधिरेण ( भ्रूणरक्तेन ) लोहिनी ( रक्तवर्णा ), भूमिः = पृथिवी ।
इयमिति । पक्षचरस्य = यूथसंचरणशीलस्य, यूथपतेः = स्ववर्गश्रेष्ठस्य हस्तिन इति भाव: । मदजलमलिना = - दानसलिलमलीमसा, अटवीवेणिकाऽनुकारिणो = वनभूमि केशबन्धाऽनुकरणशीला, इयम्, सञ्चारवीथी = सञ्चरणपद्धतिः । इयम् = एषा, चमरीपङ्क्तिः = चमरमृगीश्रेणी, अनुगम्यताम् = अनुव्रज्यताम् । उच्छुष्कमृगकरीषपांसुला = उच्छुष्कानि ( वानानि, अतिपुरातनानीति भावः ) यानि मृगकरीषाणि ( हरिणपुरीषाणि ), तै: पांसुला ( सरजस्का ), इयं वनस्थली = अरण्याऽकृत्रिमभूमिः, त्वरिततरं = शीघ्रतरम् अध्यास्यताम् = आश्रीयताम् । तरुशिखरं = वृक्षोर्ध्व प्रदेशः, आरुह्यताम् = आरोहणविषयीक्रियताम् । इयं = सम्मुखस्था, दिक् = दिशा, आलोक्यतां = दृश्यताम् । अयं, शब्दः = ध्वनिः, आकर्ण्यतां = श्रूयताम् । धनुः = कार्मुकं गृह्यताम् = आदीयतां, पशुपक्ष्यादिवधायेति शेषः । अवहितैः = सावधानैः, युष्माभिः, स्थीयताम् = अवस्थानं क्रियताम् । श्वानः = कुक्कुराः, विमुच्यन्तां : बन्धनान्मुक्ताः क्रियन्ताम् । आखेटयोग्यजन्तुवधायेति शेषः । इति - पूर्वोक्तप्रकारेण, अन्योन्यं=परस्परम्, अभिवदतः = भाषमाणस्य, मृगयाऽऽसक्तस्य = आखेटक्रीडातत्परस्य तरुगहनाऽन्तरितविग्रहस्य = तरुणां ( वृक्षाणाम् ) यत् गहनं ( वनम् ) तेन अन्तरित: ( व्यवहितः ) विग्रह: ( शरीरम् ) यस्य, तस्य । महतः = विशालस्य, जनसमूहस्य = लोकवृन्दस्य | क्षोभितकाननं = क्षोभितं ( सञ्चालितम् ) काननं ( वनम् ) येन, तम् । तादृशं कोलाहलं = कलकलम्, अशृणवम् = श्रुतवान् ।
=
( मृगविशेष ) का मार्ग है । यह हाथी के पैरासे रोदे गये वृक्षोंके पल्लवोंका समूह है । यह गैंडोंक समूहका क्रीड़ास्थान है । यह नाखूनों की नोकोंसे विकृत और चित्रित पत्रक आकारकं चिह्नोंवाला, रुधिरसे गुलाबी हाथी के मोतियोंके खण्डोंसे ऊँचनीच (विषम ) सिंहका मार्ग है, यह तत्क्षण ब्याई गई वनमृगीके गर्भक रुधिरसे लाल भूमि है, यह वनभूमिकी चोटीका अनुकरण करने वाला समूहमें रहने वाले हाथियोंके गरोह के मुख्य हाँथीके मद जलसे मलिन सञ्चारमार्ग है । इस चमरमृगीकी पङ्क्तिका अनुगमन करो, सूखे मृग के पुरीषोंसे धूलवाली इस वनस्थलीका शीघ्र आश्रय करो, पेड़ोंकी चोटीपर चढ़ो, इस दिशाको देखली, इस आवाजको सुनो, धनुषको ग्रहण करो । सावधान ( होशियार ) होकर खड़े हो जाओ, शिकारी कुत्तोंको छोड़ दो, इस प्रकार परस्पर भाषण करते हुए, शिकार में आसक्त और पेड़ोंके वनमें छिपे हुए शरीरवाले विशाल जनसमूहकी वनको सञ्चालित करनेवाली कोलाहलध्वनिको मैंने सुना ।