________________
१७७
परिशिष्ट-१ सत्यव्रते मकरध्वजकथा संहृत्य सर्वरूपाणि, सोऽधुना प्रतिमां श्रितः ।। कुमारो विस्मितः प्रोचे, शक्तिरस्याद्भुता मुनेः ! ॥५९ ॥ साधुनोक्तमिदं स्तोकं, यस्माद्देवा महर्द्धिकाः । अत्युत्कृष्टतप:शक्ति-युक्ताश्च मुनिपुङ्गवाः ॥६०॥ कुर्वन्ति वैक्रिय रूपै-र्जम्बूद्वीपस्य पूरणम् । इदं त्वल्पर्द्धिकस्यास्य, व्यन्तरस्य विजृम्भितम् ॥६१॥ कुमारोऽवोचदेतेन, भगवन् ! किं पुराकृतम् । सञ्जातोऽयं यदल्पर्द्धि-स्ततः साधुरचीकथत् ॥६२॥ मृषावादव्रतं पूर्व-जन्मन्यादीयतामुना । तच्च भग्नमभाग्येन, परन्यासापहारतः ॥६३ ॥ तेनाल्पर्द्धिरसौ जात, इति श्रुत्वा नृपात्मजः । यावज्जीवं मृषावाद-विरतिं प्रत्यपद्यत ॥६४॥ अथ क्षिप्राऽक्षयं प्राप, ततो नत्वा तपोधनम् । परितुष्टमना गेहं, जगाम मकरध्वजः ॥६५॥ तं दृष्ट्वा भ्रातरः प्रोचुः, सोपहासं शुभं व्यधात् । शीघ्रस्वपुण्यमालोच्य, यव्यावृत्तोऽसि बान्धव! ॥६६॥ निर्गत्य यदसिद्धार्थो, निवृत्तोऽसि न तद्वरम् । प्रारब्धत्यागिनो माः, कस्य हास्यकृते न हि ? ॥६७॥ स्वर्णशून्यः कथं वक्त्रं, स्वपितर्दशयिष्यसि । स प्रोवाच विचारेण, किञ्च पश्यत कौतुकम् ॥६८॥ अथ कार्पटिकः कश्चित्, करस्थकरपत्रकः । दधन्नागफणं कक्षा-पुटं मलिनविग्रहः ॥६९॥ तृणपूलयुतं वंशं, बिभ्रद्राजकुलाग्रतः । अन्यायो मुषितोऽस्मीति, निजगाद गुरुस्वरम् ॥७० ॥ तदाकर्ण्य सभासीनो, राजा वेत्रिणमादिशत् । अन्यायं पूत्करोत्येष, मद्राज्ये केन हेतुना ? ॥७१।।
१७८
कथारत्नसागरे प्रतीहारस्तमानीय, पप्रच्छ नृपतेः पुरः । पूत्करोषि किमन्यायं, मुषितो केन वा भवान् ? ॥७२ ।। सोऽवोचत्सेवितोम्भोधि-मया द्वादशवत्सरीम् । सोऽदान्मह्यं चतु:कोटि-मूल्यं रत्नचतुष्टयम् ॥७३॥ निक्षिप्य यष्टिकामध्ये, तदत्रायातो नदीतटे । सुप्तो रात्रावहं यष्टिं, भित्त्वा तत्कश्चिदग्रहीत् ॥७४॥ इति श्रुत्वा नृपोऽवोचत्, सचिवं तनयोऽपि मे । यदि जग्राह रत्नानि, कृत्वा तस्यापि निग्रहम् ॥७५ ।। समर्पयाऽस्य रत्नानि, ततः कार्पटिकोऽवदत् । स एव निग्रहा) यः, तद्ग्रहं मन्यते स्वयम् ॥७६ ।। यः पुनस्तानि रत्नानि, गृहीत्वापि न मन्यते । न तस्य निग्रहः कार्यः, इत्यर्थे शपथोऽस्तु वः ॥७७॥ ततो मन्येत सर्वत्र, पुरेऽकार्यत घोषणा । यो रत्नान्यग्रहीत् कोऽपि, स तान्यर्पयतु द्रुतम् ॥७८ ॥ तत् श्रुत्वा चाऽकथद्रत्न-वृत्तान्तं मकरध्वजः । एतान्यस्यार्पयेत्युक्त्वा, मन्त्री राज्ञे व्यजिज्ञपत् ॥७९॥ क्रुद्धो राजा कुमारस्य, वधायामात्यमादिशत् । द्वेष्यः पर इव स्वोऽपि, न्यायिनां हि नयोज्झितः ॥८॥ अथ धोतितदिक्चक्रो, भूत्वा कार्पटिकः सुरः । जगाद जगतो ज्येष्ठं, राजन् जयति ते कुलम् ॥८१ ॥ यत्रोत्पेदे पदं वाचां, सत्यानां मकरध्वजः । कोऽयं वृत्तान्त इत्यूचे, तं विस्मितमुखो नृपः ॥८२॥ तेनोक्तं त(त्व)त्पुरोद्याना-ध्यक्षो यक्षोऽस्मि षण्मुखः । रजन्यां तु निजैः पुण्यै-लब्धा रत्नचतुष्टयी ॥८३ ।। कुमारो मद्गृहं प्राप, स श्रुत्वा मुनिदेशनाम् । सत्यवाग्व्रतमादाय, प्रातः स्वगृहमागमत् ॥८४ ॥