________________
१८०
कथारत्नसागरे
परिशिष्ट-१ सत्यव्रते मकरध्वजकथा
१७९ अथादित्योदये गच्छ-न्नप्रच्छ स मुनिर्मया । सत्यवाग्व्रतमेतत्किं, कुमारः पालयिष्यति ? ॥८५॥ किं वाह(य)मिव लोभेन, बाधितः खण्डयिष्यति । साहाऽसौ [दृढधर्माऽस्ति]न सत्यव्रतमत्यजत् ॥८६॥ अस्यास्ति सदृशः कश्चिन्नान्यः सत्त्वनिधिः पुमान् । इत्युक्त्वाऽन्यदपि द्रव्यं, दत्त्वाऽसौ व्यन्तरो ययौ ॥८७॥ कुमारस्य वच:सत्यं, रत्नलाभं च तादृशम् । दृष्ट्वा हृष्टो मुनि:(नृपः) प्रोचे, सचिवान्निखिलानिदम् ॥ ८८॥ अयमेव महासत्त्वः, सत्यवाक् सुकृतास्पदाम् । लघुरप्येष निःशेष-कुमाराणां गुणैर्महान् ॥८९॥ अस्याद्भतेन सत्त्वेन, पुण्येन च कदाचन । न देशे भविता दौस्थ्यं, दुर्भिक्षं डमरादिकम् ॥१०॥ ततो राज्यभरं वोढु-मयं धत्ते धुरीणताम् । इत्युक्त्वा तं नृपो राज्ये, निवेश्य जगृहे व्रतम् ॥११॥ राज्यं सत्त्वप्रधानोऽयं, व्यधत्त मकरध्वजः । लीलयैवाखिलास्तस्य, भूपालाः प्रणतिं ययुः ॥१२॥ कुर्वाणेन जिनेन्द्रार्चा, तेन साधून्नमस्यता । पात्रेभ्यो ददता वित्तं, जगृहे जन्मनः फलम् ॥१३॥ पालयित्वा चिरं राज्यं, स्मरन् पञ्चनमस्क्रियः । मृत्वोत्पन्नः सहस्रारे, त्रिदशो मकरध्वजः ॥१४॥ इति कृतमृषावादत्याग-व्रतो मकरध्वजो, व्यलभत भवेऽप्यस्मिन् कीर्तिं श्रियं च दुरासदम् । सुरनरसुखं भुक्त्वा भूयः, परत्र विकल्मषः; शिवपदपुरीसाम्राज्यं च क्रमेण करिष्यति ॥१५॥
इति मकरध्वजकथामृषावादत्यागवतोपरि।
परिशिष्ट-२
दानस्योपरि कृतपुण्यकथा अस्ति राजगृहं नाम, पुरं लीलागृहं श्रियः । विधत्ते व्यसनं यत्र, जनानां धर्मकर्मसु ॥१॥ दासीकृतरिपुश्रेणिः श्रेणिकस्तत्र भूपतिः । अस्ति विस्तीर्णयत्कीर्त्ति-पूरे हंसायते शशी ॥२॥ धनैः कृतार्थयन्नर्थि-साथ सार्थपतिर्धनः । तत्रोवास रसाधीश-प्रसादसदनं सदा ॥३॥ गर्भ बभार तद्भार्या, भद्रा भद्राशयाऽन्यदा । कृतपुण्यतया वण-वर्णितं निखिलैरपि ॥४॥ पूर्णेन्दुवदना पूर्णे, समयेऽसूत सा सुतम् । अतुच्छमुत्सवं चक्रे, तदानीं मुदितः पिता ॥५॥ लोकवाक्यानुसारेण, तस्य शस्यमतेः शिशोः । कृतपुण्य इति प्रीत्या, धनो नाम विनिर्ममे ॥६॥ अर्थिनामिव विद्यानामवगाह्य चतुष्टयम् । स प्राप प्रज्ञया नावा स्वा[वा]समिव यौवनम् ॥७॥ हृदयानन्द नामैष, कस्यापीभ्यस्य नन्दनाम् । उपायंस्त निदेशेन, पितुरुद्यतयौवनाम् ॥८॥ यौवनेऽपि सतां सङ्गाद्विमुखं विषयेषु तम् । चिक्षेप विटगोष्ठीषु, धनस्तद्भोगकौतुकी ॥९॥ पुरे प्रतिगृहं भ्राम्यन्, कुसंसा निर्गल[मनाः] वश्यो वेश्याजनस्याभूत्, कतिपयैर्दिनैरयम् ॥१०॥