________________
१६५
तरङ्ग-१५ : अगडदत्तकुमारचरितम् यक्षकर्दममुत्सृज्य, तापा” ग्रामसूकरः । यथा मूत्रमलोन्मत्ते, कर्दमे कुरुते रतिम् ॥४२८॥ तथा कुलस्त्रियं हित्वा, शीलसौरभशालिनीम् । विवेकवन्ध्यो दुःशील-रामायां रमते जनः ॥४२९ ॥ अहो प्रशस्यः कोऽप्यस्य, स्वभावः सरलोज्ज्वलः । परोपकारिता सेयं, सत्यमत्यद्भुतं च तत् ॥४३०॥ धिग् मुधाऽनन्यसामान्यं, नररत्नं तदीदृशम् । विनाश्य कस्यां यास्यामि, नरकादप्यधोगतौ ॥४३१ ॥ एवं विमृश्य वेगेन, सोऽपहस्तिकया ततः । दृढमाहत्य तत्पाणे:, खड्गदण्डमपातयत् ॥४३२॥ इत्थं कथयतस्तस्य, मुनेः कम्पितमानसः । कुमारश्चिन्तयामास, साहसं धिगहा ! स्त्रियाम् ॥४३३॥ इयत्कालं हहा यश्च, मतिमोहो महान्मम । यज्जात्यरलमुत्सृज्य, काचः शिरसि धारितः ॥४३४ ।। धर्मपत्नी तिरस्कृत्य, कृत्यामेतां प्रमाणयन् । लोकद्वितयमप्यज्ञो, हहा हारितवानहम् ॥४३५ ॥ ये दुर्वृत्तासु रज्यन्ते, धर्मपत्नीपराङ्मुखाः । मूर्खाणां क्षीयते तेषामर्थो धर्मः कुलं बलम् ॥४३६ ॥ न विपक्षोऽपि रक्षेन्मां, यद्यकारणबान्धवः । मम बालस्य कालः स्यात्, तदकाले पशोरिव ॥४३७॥ मुनिः पुनरवादीत् तं, ततस्तां खड्गखाट्कृतिम् । श्रुत्वा कुमारस्तामूचे, किमिदं मन्दिरेक्षणे ! ॥४३८॥ साप्याख्यत् पतितः खड्गो, विषावेशाऽस्थिरात्करात् । निर्विकल्पः कुमारस्तां, वीतशीतामथ व्यधात् ॥४३९ ॥
१६६
कथारत्नसागरे ततोऽसौ प्रातरायातैः, पत्तिभिः परिवारितः । कृत्यां तां रथमारोप्य, मुदितो मन्दिरं ययौ ॥४४० ॥ तेऽपि पञ्चापि पल्लीन्दु-सोदराः सुन्दराशयाः । कुमारमारणोत्साहं, विषादादेव तत्यजुः ॥४४१ ॥ विमृशन्ति स्म चाऽन्योन्य-महोमोहः शरीरिणाम् । दु:खानां खानिषु स्त्रीषु, यदेषा सुखवासना ॥४४२ ।। त्यक्त्वा लोकद्वयापेक्षा, विलुप्य च कुलद्वयम् । प्राणानपि तणीकृत्य, नीत्वा च निधनं धनम् ॥४४३ ।। यदर्थं खिद्यते लोकैः, सुखं सर्वस्वकाङ्क्षिभिः । तासां दुश्चरितस्त्रीणां, परिणामोऽयमीदृशः ॥४४४ ।। पुरुषाणां वपुर्द्धर्म-द्रव्यकीर्त्यादिकर्त्तनः । कामः कथमनर्थोऽपि, पुरुषार्थेषु कीर्त्तितः ? ॥४४५ ।। येनार्थधर्मों कामस्य, हतौ पितृ-पितामहौ । पारदार्येण कामोऽपि, तेन किं न हनिष्यते ? ॥४४६ ।। इति निर्वेदमासाद्य, तेऽमी पल्लीन्द्रबान्धवाः । यान्तो भैरवपातार्थे, सार्थभ्रंशादिहागताः ॥४४७ ।। व्यावर्त्तिता स्वघाताच्च, मया वाञ्छत्यमी व्रतम् । एतद्भद्र! तवाख्यात-मेषां वैराग्यकारणम् ॥४४८॥ अभ्यधत्त कुमारोऽथ, कथानकमिदं प्रभोः । सर्वं मदीयं येनाहं, सोऽस्मि सैव च मे प्रिया ॥४४९ ॥ यथा नाथ ! तमच्छन्न-लोचनेषु विरोचनः । मोहान्धेषु बभूवाद्य, मादृशेषु तथा भवान् ॥४५० ॥ मम चैतन्यशून्यस्य, विषेण विषयात्मना । अद्य त्वमगदङ्कारश्चैतन्यमुदमीलयः ॥४५१ ॥