________________
१६३
तरङ्ग-१५ : अगडदत्तकुमारचरितम् भल्लिभिः पल्लिनाथेन कृतोत्कर्षेण वर्षता । सत्त्वसारः कुमारोऽसौ नीतः किञ्चिद्विहस्तताम् ॥४०४॥ अथास्यवल्लभा रूप-सौभाग्यैकनिकेतनम् ।। उत्थाय सारथिस्थाने, तदा स्वयमुपाविशत् ॥४०५ ।। ततः पल्लीपतिं तस्या, विभ्रमैन्तिचेतसम् । मारयित्वा कुमारोऽसौ पुरतस्त्वरितं ययौ ॥४०६ ।। ग्रामान्तरादुपायाता, तदा तस्य च सोदराः । कृतौदैहिकं भ्रातुः, सन्धां वैरिवधे व्यधुः ॥४०७ ।। ते चाम!ष्मसन्तप्ता, वैरिण्यप्रभविष्णवः । कष्टेनागमयत् ग्रीष्मं, कासरा इव वासरान् ॥४०८॥ उद्याने चान्यदा रात्रौ, प्रियामात्रपरिच्छदे । स्थिते कुमारे तेऽप्यस्थुः, लीना देवकुलान्तरे ॥४०९ ॥ अथ दैववशात् सर्प-दष्टया प्रियया सह । वह्निमस्मिन् विशत्येनां, खेचरः कोऽप्यजीवयत् ॥४१० ॥ स्रस्तरेऽसौ ततश्चूतपल्लवैः परिकल्पिते ।। दत्तबाहुः स्वयं शीत-भीतामेतामशायत ॥४११ ॥ प्रेम्णा प्रेष्य इवाऽथास्मिन्, वह्नयर्थे दूरतो गते । ते पूर्वपिहितं दीपं, तदानीमुदघाटयत् ॥४१२॥ कुमारशयनस्थानं, तेषु पश्यत्सु यत्नतः । भ्राता कनीयान् तत्पत्न्या, गतो लोचनगोचरम् ॥४१३ ॥ अथास्या मानसं मज्जत्, तस्य लावण्यवारिधौ । दूरतस्तत्यजुर्लज्जा, प्रेमकौलीनभीतयः ॥४१४ ॥ ततस्तं सा वृषस्यन्ती, मन्मथव्यथिताशया । स्वयमभ्यर्थयाञ्चक्रे, स च तामिदमब्रवीत् ॥४१५ ॥
१६४
कथारत्नसागरे त्वद्भर्तृकर्तृकं वैरमस्ति बन्धुवधात् पुरा । मत्कर्तृकमिदानीं तु, भवेद्दाराऽपहारतः ॥४१६ ॥ तथापि त्वादृशं प्राण-व्ययेनाप्यतिदुर्लभम् । रामारत्नं विना यत्नमायातं कः प्रतिक्षिपेत् ॥४१७ ।। किन्तु त्वां जीवतः पत्युः, को नामाक्रष्टुमीश्वरः । जीवतो द्वीपिनः पश्य, केनचिच्छिद्यते छविः ? ॥४१८ ॥ साप्याख्यदेनं प्रत्यूह, प्रत्यूह मा वृथा कृथाः । एनं व्यापाद्य सद्यस्त्वां, यन्निशल्यीकरोम्यहम् ॥४१९ ।। एवं वदन्त्यामेतस्या-मागादग्निकरः पतिः । अपसृत्य ततस्तेऽपि, दीपकं झटिति व्यधुः ॥४२० ॥ उद्योतहेतौ पृष्टेऽथ, तेनायातेन तत्र च ।। साऽभ्यधत्त त्वदानीत-वह्नेस्तत् प्रतिबिम्बितम् ॥४२१ ।। प्रकृत्या सरलः सोऽपि, निःशङ्कः पावकं धमन् । पाणौ कृपाणमेतस्या, विश्वासेन समार्पयत् ॥४२२ ॥ साहसातिशयेनास्य, त्रस्तः साहसिकोऽप्यसौ । द्रष्टुं दुश्चेष्टितं तस्थौ, तत्रैवान्तर्हितस्तदा ॥४२३ ॥ अत्रान्तरे धमत्यग्निं, पत्यौ सरलकन्धरे । यावदाकृष्य निस्तूंशं, निस्तूंशा प्रहरत्यसौ ॥४२४ ॥ स चौरो चिन्तयत्तावत्, धिगिमां दुष्टचेष्टिताम् । दुश्चरित्रं यदेतस्या, राक्षसेभ्योऽपि भीषणम् ॥४२५ ॥ यन्नास्या गणयत् प्रेम, नैवानुमरणोद्यमम् । नैव जीवितसन्धानं, न कर्मकरवृत्तिताम् ॥४२६ ।। तदाऽत्रापि यदेतस्याः, कर्म कर्कशमीदृशम् । तदहो कीदृशं तु स्यान्, मादृशेऽनुपकारिणि ॥४२७ ॥