________________
६४
तरङ्ग-९ : शारदासौहार्दम् पौरो गवादथाऽऽदाय, सप्रमोदः समोदकम् । पिण्डबद्धमिव स्नेहं, तस्यै स्वयमुपानयत् ॥१२॥ सभ्रूभेदमथोदैक्षि, तया स्मितमुखी सखी । सापि मोदकमादाय, जगाद जगतीपतिम् ॥१३॥ उदकेनाऽभिषेकोऽयं, स्वामिन्या विनिवारितः । देव ! कोऽवसरः सोऽयं, त्वत्तो मोदकयाचने ॥१४॥ ततस्त्रपाऽतिभारेण, दूरं विनमिताऽऽननः । उत्सृज्य मज्जनक्रीडां, निजं धाम जगाम सः ॥१५॥ तत्राऽवतीर्य तूष्णीकः, सत्वरं स तुरङ्गमात् । कृताऽवगुण्ठनः शय्या-मधिशय्येत्यचिन्तयत् ॥१६॥ सर्वशास्त्रबहिर्भूतो, धिग् देवेनाऽस्मि निर्मितः । यन्मामहो महिलाऽपि, साऽवहेलाऽवलोकते ॥१७॥ वैरिवर्गे समग्रेऽपि, मूर्खत्वं धुरि धार्यताम् । प्रस्तरत्वं नरत्वेऽपि, जनानां येन जन्यते ॥१८॥ यस्य वाणी कपाणीव, निशिता न वशंवदा । परेषां हृदयं भेत्तुं, कुतः सापि प्रगल्भते ॥१९॥ मनागपि न शास्त्रार्थ-स्वादमासादयन्ति ये । तेऽप्यात्मानं मनुष्येषु, मन्यन्ते महदद्भुतम् ॥२०॥ तत्पशोरिव राज्येन, किमनेन ममाऽधुना ? । इति निश्चित्य चित्तेन, नृपः सुप्त इव स्थितः ॥२१॥ ततश्चाऽऽसन्नलोकेन, वैद्य-मान्त्रिक-मन्त्रिभिः । भाषितोऽपि यदा किञ्चि-नोचे न बुभुजे च सः ॥२२॥ कृत्वा विविक्तमित्युक्तस्तदाऽसौ शर्ववर्मणा । दुःखहेतावविज्ञाते, कुतो देव! प्रतिक्रिया ? ॥२३॥
कथारत्नसागरे तत् तथ्यं कथ्यतां नाथ!, येन प्रतिकरोम्यहम् । ततः स पूर्ववृत्तान्तं, सचिवाय न्यवेदयत् ॥२४ ।। सर्वविद्यानदीश्रोत:-पारावारं नराधिपः । षण्मासान्तः करिष्यामि, त्वामहं मा विषीदत ॥२५॥ इति प्रतिज्ञाद्वारेण, सभायां रभसावशात् । अमात्यः क्षमापते: स्वान्ता-च्चिन्तामेतामपाहरत् ॥२६॥ भूभुजं भोजयित्वाऽथ, स्तूयमानः स्तुतिव्रतैः । विद्वद्भिर्विस्मितैर्दृष्टो, मन्त्री मन्दिरमागमत् ॥२७॥ रात्रौ विवशतां नीतः, सचिवः चिन्तया तया । ईर्ष्याकलुषयेवोच्चै-निद्रया न विलोकितः ॥२८॥
अहो ! दुष्करनिर्वाहा, प्रतिज्ञेयं मया कृता । परं प्रतिज्ञानिर्वाहः, परमं पुरुषव्रतम् ॥२९॥ भस्मनापि तृणेनापि, कापि निष्पद्यते क्रिया । प्रतिज्ञातार्थनिर्वाह-च्युतेन तु न जन्तुना ॥३०॥ कथमुद्घाट्यते धृष्टः, सच्चरित्रोज्वले जने । स्वप्रतिज्ञापरिभ्रंश-पङ्केन कलुषं मुखम् ॥३१॥ आरूढपतितः केन, मान्योऽपि बहुमन्यते । सद्यो हि शिरसः स्त्रस्तं, माल्यं मूल्यं लभेत किम् ? ॥३२॥ जीवितव्यव्ययेनापि तत्प्रतिज्ञां निजामिमाम् । ध्रुवं निर्वाहयिष्यामीत्येवं विहितनिश्चयः ॥३३॥ आहारपरिहारेण, स्वयं चरणचारतः । स यात्रां स्वामिदेवस्य, चक्रे तवश्यमानसः ॥३४॥ प्रत्यक्षीभूय तस्याथ, कुमारः परितोषभाक् । सारस्वतमयं मन्त्रं, कातन्त्रं च समादिशत् ॥३५॥