________________
तरङ्ग-८: जयराजचरितम्
चित्रदर्शनसञ्जात-जातिस्मृतिभवस्तव ।
तत्र मित्रैश्च सम्बन्धः, प्रबोधश्च भविष्यति ॥९८ ॥ ससुरः शूरराजेन, स्वप्नदर्शनतस्ततः । स्वपूर्वभववृत्तान्तं चित्रभित्तावलेखयन् ॥९९॥ सोऽहं शङ्खस्य जीवोऽस्मि, मित्राण्येतानि तानि मे । तच्चित्रदर्शनान्मोह:, प्रबोधश्चाधुनाऽभवत् ॥ १०० ॥ संसारे सारतापात्र - मेताः सुरनरश्रियः ।
यस्याः प्राणिदयावल्ले:, पल्लवो च सितत्विषः ॥ १०१ ॥ परब्रह्मस्वरूपं तत् परमानन्दमन्दिरम् । फलमस्यास्तु लोकाग्रे, जाग्रद्भावं भविष्यति ॥ १०२ ॥ इति राज्ञः कथाज्योत्स्ना - प्लवप्लवितचेतसाम् । जनानां मोहसन्तापः प्राप शान्तिं समन्ततः ॥ १०३ ॥ ते जातिस्मृतिदीपेन दृष्टप्राग्भववृत्तयः ।
६१
अन्योन्यं स्नेहसम्बन्धं, बबन्धुर्बन्धुताधिकम् ॥ १०४ ॥ परोपकरणे दीनो-द्धरणे चैत्यकारणे । स्मरणे मन्त्रराजस्य, ते यतन्ते स्म सन्ततम् ॥ १०५ ॥ हिंसां रसाया निर्वास्य, नृपः पटहपूर्वकम् ।
स दयामुदयां चक्रे, जगन्मान्यतया तया ॥१०६ ॥ क्रमाच्च कृतकामादि- वैरिवीरजयो जयः । लप्स्यते शिवसाम्राज्य - कमलाममलायति ॥ १०७ ॥ इति जयचरितादवाप्य सारं तदुचितमप्यनुसृत्य कर्मसन्तः । जगदुपरिपदे परां प्रतिष्ठा - मितरजनैरतिदुर्लभां लभन्ताम् ॥१०८ इति श्रीमलधारिकृते कथारत्नसागरे जयराजचरितं नामाष्टमस्तरङ्गः ॥
६२
कथारत्नसागरे
शारदासौहार्दम् तरङ्गः-९
सङ्गमः श्रीसरस्वत्योर्जीयात् तीर्थं तदद्भुतम् । यत्र धर्मार्थकामानां सममेव प्रसूतयः ॥ १ ॥ ततस्त्रिवर्गसम्पत्ति-मिच्छता मतिशालिना । श्रीशातवाहनेनेव तयोर्वैरं विधूयताम् ॥२॥ ख्यातमस्ति प्रतिष्ठान पत्तनं मण्डनं भुवः । शङ्के हसति सौधैर्यत्, पुरन्दरपुरश्रियम् ॥३॥ मज्जत्पुरपुरन्ध्रीणां, सैरन्ध्रीवाऽब्जगन्धिभिः । जलैर्हतकृताऽऽमोदा, यत्र गोदावरी नदी ॥४॥ आसीदसीमभूमीभृत्, पक्षविच्छेदकोविदः । पाकशासनवत् तत्र, नृपतिः शातवाहनः ॥५॥ शर्ववर्माभिधः सर्वकर्मणे मतिवैभवः । बभूव सचिवस्तस्य प्रज्ञावज्ञातवाक्पतिः ॥६॥ तस्मिन् मन्त्रिणि विन्यस्य, धराभारं नरेश्वरः । आबाल्यादपि साम्राज्ये, केलिदुर्ललितेऽभवत् ॥७ ॥ अथाऽन्यदा निदाघर्ती, दावपावकजित्वरे । ज्वालाभिरिव वात्याभिस्तापयत्यवनीं वनीम् ॥८ ॥ सान्तःपुरपरीवारः, करीव करिणीवृतः । सरसीं नृपतिः प्राप तापनिर्वापणौषधीम् ॥९ ॥ ( युग्मम् ) तत्र नेत्राञ्चलैः पूर्वं रत्नशृङ्गाम्बुभिस्ततः । चक्रे प्रियाभिर्व्यात्युक्षी, विनोदं मेदिनीपतिः ॥ १० ॥ सिञ्चत्यथ नृपे कापि, सुमुखी विदुषीतमा । मां मोदकेन सिञ्चेति, निर्व्याजा व्याजहार तम् ॥ ११ ॥