________________
द्वितीयः सर्गः]
[४३ वज्रसेनोऽपि विज्ञप्तः, स्वयं पण्डितया तया । सुवर्णजङ्घपुत्रं तं, कुमार्या पर्यणीनयत् ॥३८४॥ सोऽथ श्वशुरमापृच्छ्य, लोहार्गलपुरं गतः । स्वयं जिघृक्षुणा दीक्षां, पित्रा राज्ये निवेशितः ॥३८५।। सुतं पुष्कलपालाख्यं, राज्ये कृत्वा स चक्रभृत् । वज्रसेनोऽपि सञ्जज्ञे, मुनीभूयाथ तीर्थकृत् ॥३८६।। अन्यदा पुष्कलक्ष्मापं, श्रुत्वा शत्रुभिरावृतम् । वज्रजङ्घोऽपि साहाय्यं, कर्तुं तस्य पुरीं ययौ ॥३८७।। तत्र शत्रून् विनिर्जित्य, श्रीमत्या सहितोऽथ सः । व्रजन् निजपुरं मार्गे, विलोक्य मुनिसत्तमौ ॥३८८॥ आत्मीयावेव सोदयौं, केवलज्ञानशालिनौ । नमश्चक्रे कृती नाम्ना, सेनान्तौ मुनि-सागरौ ॥३८९॥ युग्मम् ॥ अथैव चिन्तयामास, वज्रजङ्घनरेश्वरः । अहो ! मे मन्दभाग्यत्वमहो ! मे मतिहीनता ॥३९०॥ यदहं प्राप्तवान् लक्ष्मी, वान्तप्रायामिमां पितुः । एतौ चारित्रसाम्राज्यं, प्रापतुः सोदरौ तु मे ॥३९१।। अधुनाऽपि पुरं गत्वा, दत्त्वा राज्यं स्वसूनवे । चारित्राशनिना कर्मद्रुमं भस्मीकरोम्यहम् ॥३९२॥ इति निश्चित्य भूपालो, लोहार्गलपुरं गतः ।। प्रातर्दित्सुरयं राज्यं, प्रसुप्तः श्रीमतीयुतः ॥३९३।। अज्ञातपरमार्थेन, राज्यलोभान्धचेतसा । विषधूमप्रयोगेण, घातितो निशि सूनुना ॥३९४॥ युग्मम् ॥ अथोत्तरकुरुष्वेव, समं दयितया तया । नृपो युगलधर्माऽऽयुर्यथाक्षेत्रमपालयत् ॥३९५।। सौधर्मकल्पे सङ्कल्पोपनतैः प्रीणितौ सुखैः । स्नेहस्यूताविवाभूतामेककालमुभौ सुरौ ॥३९६।।
D:\maha-k.pm5\2nd proof