________________
४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वज्रजङ्घस्य जीवोऽथ, जम्बूद्वीपे दिवश्च्युतः । क्षितिप्रतिष्ठितपुरे, विदेहक्षेत्रमण्डने ॥३९७।। वैद्यस्य सुविधेः सूनुर्जज्ञे सत्कर्मकर्मठः । जीवानन्दाख्यया ख्यातो, वैद्यविद्याविशारदः ॥३९८।। ईशानचन्द्रभूभर्तुस्तत्रैव नगरे तदा । कान्तायां कनकवत्यां, जज्ञे पुत्रो महीधरः ॥३९९।। लक्ष्म्यां च जज्ञे कान्तायां, सुनासीरस्य मन्त्रिणः । सुतः सुबुद्धिर्विख्यातो, नाम्ना च क्रियया च यः ॥४००॥ प्रियायां शीलवत्यां च, धनाख्यश्रेष्ठिनस्तदा । नन्दनो गुणरत्नानामाकरोऽभूद् गुणाकरः ॥४०१।। बभूवाऽभयमत्यां च, पत्न्यां सार्थपतेः सुतः । नाम्ना सागरदत्तस्य, पूर्णभद्र इति श्रुतः ॥४०२।। सोऽप्यत्र श्रीमतीजीवश्च्युतः सौधर्मकल्पतः । बभूवेश्वरदत्तस्य, श्रेष्ठिनः केशवः सुतः ॥४०३।। एषामपि च पञ्चानां, समानगुणशालिनाम् । जीवानन्देन वैद्यन, सह सख्यमभूत् तदा ॥४०४।। सङ्गतानामथामीषामन्येधुर्वैद्यवेश्मनि । साधुर्माधुकरी भिक्षां, कुर्वन् नेत्रपथं ययौ ॥४०५।। तं पृथ्वीपालभूभर्तुः, पुत्रं किल गुणाकरम् । आत्तव्रतं तपःकष्टानुष्ठानैर्वीक्ष्य कुष्ठिनम् ॥४०६।। महीधरकुमारस्तं, वैद्यपुत्रं तदाऽवदत् । धिगिदं भिषजां जन्म, धिगिदं शास्त्रकौशलम् ॥४०७।। अनीहानां शरीरेऽपि, परत्रैकरतात्मनाम् । यदीदृशानां साधूनां, नोपकाराय जायते ॥४०८॥ यल्लोकमल-मूत्रादिघ्राणान्मालिन्यमर्जितम् ।
तदिदं क्षाल्यतामद्य, मुनेरारोग्यदानतः ॥४०९॥ १. 'न, समं मैत्र्यमभूत् खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof