________________
[४५
द्वितीयः सर्गः]
जीवानन्दो जगादैवमथ राजेन्दुनन्दनम् । युवाऽपि वृद्धबुद्धिस्त्वं, युक्तमेवोक्तवानिति ॥४१०।। किन्तु दीनारलक्षण, प्रत्येकमपि दुर्लभैः । निगृह्यते यतेरस्य, रोगोऽयं भेषजैस्त्रिभिः ॥४११।। एतेषु लक्षपाकाख्यं, तैलमस्त्येव मद्गृहे । गोशीर्षचन्दनं रत्नकम्बलं च पुनर्न हि ॥४१२।। इत्युक्ते तेन ते पञ्च, विपणिश्रेणिमण्डनम् । कञ्चिन्महेभ्यमभ्येत्य, श्रेष्ठिनं श्रेष्ठमूचिरे ॥४१३।। अपि दीनारलक्षाभ्यां, देहि गोशीर्ष-कम्बलौ । यदाभ्यां कर्तुमिच्छामश्चिकित्सां रोगिणो मुनेः ॥४१४।। तेषामिति वचः श्रुत्वा, विस्मयस्मेरमानसः । जगाद सादरं श्रेष्ठी, धन्याः ! शृणुत मद्वचः ॥४१५।। कुष्ठरोगाभिभूतस्य, योग्यावेतौ महामुनेः । राज्येनापि न लभ्येते, दूरे दीनारदर्शनम् ॥४१६॥ सन्ति पुण्यनिदानानि, यानि दानानि कोटिशः । एतैरारोग्यदानस्य, शतांशेनापि नोपमा ॥४१७।। तद् गृह्णीत विना मूल्यमनुगृह्णीत मां मुदा । श्रेष्ठीत्युक्त्वाऽर्पयामास, रत्नकम्बल-चन्दने ॥४१८।। ततस्ते सम्पादाय, शकनैः शभशंसिभिः । जीवानन्देन सहिता, मुनेरनुपदं ययुः ॥४१९।। कायोत्सर्गासनासीनमधोन्यग्रोधभूरुहः । बाह्योद्यानेऽथ ते वीक्ष्य, नमश्चक्रुर्मुनीश्वरम् ॥४२०॥ ततो मुनिमनुज्ञाप्य, तैलेनाभ्यज्य वैद्यभूः । निश्चेतनेऽथ तद्देहे, क्षिप्तवान् रत्नकम्बलम् ॥४२१॥ तैलतापेन तेनाथ, व्याकुलास्तत्कलेवरात् ।
निःसृत्य शीतले लीनाः, कृमयो रत्नकम्बले ॥४२२।। १. “वानिदम् खंता० पाता० ॥
D:\maha-k.pm5\2nd proof