________________
४६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ गोशवमानीय, तस्योपरि दयापरः । कम्बलात् पातयामास, कृमीन् वैद्यवरः स्वयम् ॥४२३।। गोशीर्षचन्दनस्यन्दैरिन्दुनिस्यन्दसुन्दरैः । शमिनः शमयामास, स तापव्यापदं मुदा ॥४२४।। त्रिविधाय क्रियामित्थं, कृमीनतुलकौशलः । गोशवे पातयामास, त्वग्मांसास्थिगतानयम् ॥४२५।। कैश्चिद् दिनैः शमिस्वामी, चामीकरसमच्छविः । क्षमितस्तैर्विहाराय, पुनर्नववपुर्ययौ ॥४२६।। वणिक्प्रष्ठोऽपि भैषज्यदानप्रभववैभवात् । अन्तकृत्केवलीभावं, तस्मिन्नेव भवेऽभजत् ॥४२७।। तेऽपि कम्बल-गोशीर्षशेषं विक्रीय काञ्चनैः । प्रासादं कारयामासुः, स्वेन लक्षयद्वयेन च ॥४२८।। कियताऽप्यथ कालेन, समं सञ्जातभावनाः । व्रतं प्राप्याऽच्युते कल्पे, शिश्रियस्त्रिदशश्रियम् ॥४२९।। द्वाविंशत्यतरायुष्कास्ते सर्वेऽप्यच्युताच्च्युताः । प्राग्द्वीपप्राग्विदेहेषु , तटे लवणवारिधेः ॥४३०।। विजये पुष्कलावत्यां, पुण्डरीकिण्यधीशितुः । वज्रसेननृपस्याऽऽसन् , धारिण्यां पञ्च सूनवः ॥४३१।। युग्मम् ॥ अभूत् तेषु भिषग्जीवो, वज्रनाभाभिधोऽग्रजः । चतुर्दशमहास्वप्नशिष्टसाम्राज्यवैभवः ॥४३२॥ बाहुः सुबाहुः पीठोऽथ, महापीठः क्रमादमी । जीवास्ततो नृपा-ऽमात्य-श्रेष्ठि-सार्थेशजन्मिनाम् ॥४३३।। आसीत् केशवजीवोऽपि, सुयशा राजपुत्रकः । प्राग्भवस्नेहतः सोऽपि, वज्रनाभमशिश्रियत् ॥४३४॥ तीर्थप्रवृत्त्यै विज्ञप्तस्ततो लोकान्तिकैः सुरैः । वज्रसेननृपो राज्ये, निवेश्य निजमात्मजम् ॥४३५।।
20
25
१. 'युस्त्रिदिवः श्रियम् वता० ॥ २. जन्मनाम् खंता० पाता० ।।
D:\maha-k.pm5\2nd proof