________________
[४७
द्वितीयः सर्गः]
सांवत्सरिकदानानि, दत्त्वा देवेन्द्रवन्दितः । चारित्रसम्पदा साकं, मन:पर्यायमासदत् ॥४३६।। वज्रनाभमहीनाथो, महीमथ महाभुजः । सुयशःसारथिः शक्रसमलक्ष्मीरपालयत् ॥४३७।। केवलं वज्रसेनस्य, तस्य तीर्थकृतस्तदा । चक्रं तु सममेवाभूद् वज्रनाभस्य भूभुजः ॥४३८।। वज्रनाभो विजित्याथ, विजयं पुष्कलावतीम् । प्राप्तचक्रिपदः कामं, धर्म्यकर्माणि निर्ममे ॥४३९।। अन्यदा जातवैराग्यस्तातपादान्तमागतः । राज्यं न्यस्य सुते दीक्षां, सबन्धुर्जगृहे नृपः ॥४४०॥ भवोपग्राहिकर्माणि, क्षयं नीत्वाऽथ निर्वृतिम् । वज्रसेनप्रभौ प्राप्ते, धरायां विजहार सः ॥४४१॥ द्वादशाङ्गधरस्यास्य, सिद्धयः सकला अपि । वज्रनाभमुनीन्द्रस्य, पादपीठान्तिकेऽलुठन् ॥४४२॥ अन्येऽपि बन्धवस्तस्य, समं सुयशसाऽभवन् । एकादशाङ्गपारीणा, महिम्नां च महास्पदम् ॥४४३।। विंशत्याऽऽराधितैः स्थानैरर्हद्भक्तिपुरःसरैः । वज्रनाभमुनीन्द्रोऽथ, तीर्थकृत्कर्म निर्ममे ॥४४४॥ वैयावृत्येन साधूनां, बाहुश्चक्रिपदप्रदम् । सुबाहुस्तु बलाधायि, कर्म निमितवान् मुनिः ॥४४५।। प्रशंसां च तयोश्चक्रे, वज्रनाभमुनीश्वरः । तेन पीठ-महापीठौ, प्रकामं दुर्मनायितौ ॥४४६।। तदीर्ध्याजनितं कर्म, ताभ्यामालोचनां विना । स्त्रीभावफलदं चक्रे, मायामिथ्यात्वयोगतः ॥४४७॥ क्रमात् षडपि ते पूर्वलक्षान् दीक्षां चतुर्दश । पालयित्वाऽथ सर्वार्थसिद्धिश्रियमशिश्रियन् ॥४४८।।
१. "मार्जयत् पाता० ॥ २. धर्मक' पाता० ।।
D:\maha-k.pm5\2nd proof