________________
४८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्यऽनुत्तरविमाननिवासश्रीविलासविकसन्मनसस्ते । निर्वृतिप्रतिभुवं भवभाजां, भेजिरे निरुपमां सुखलक्ष्मीम् ॥४४९।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिपूर्वभववर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ यस्तीर्थयात्राभवपुण्ययोगान्मात्राधिकोऽभूद् भगवत्प्रसादः । श्रीवस्तुपालस्तममुं पृथिव्यां, प्रासादमूर्त्या प्रकटीचकार ॥१॥
॥ ग्रं० ४५६ उभयं ५७७ ॥
१. भदेवस्वा वता० ॥ २. एतत्पद्यानन्तरं पाता० पुस्तकेऽयं श्लोकोऽधिक उपलभ्यतेया श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखता विभाति ॥२॥
वता० खंता० पुस्तकयोः पुनरयं श्लोकः तृतीयसर्गप्रान्ते वर्तते ॥ ३. ग्रंथाग्रम्-४५३ ।। उभयं ५६८ ॥ इति पाता० ॥
D:\maha-k.pm5\2nd proof