________________
तृतीयः सर्गः ॥
[कुलकराणामुत्पत्तिर्नीतयश्च]
इतश्च जम्बूद्वीपेऽस्ति, विदेहेष्वपरेषु पूः । ईशानचन्द्रक्ष्माचन्द्रवाता नाम्नाऽपराजिता ॥१॥ तत्र चन्दनदासस्य, श्रेष्ठिनो नन्दनोऽभवत् । ख्यातः सागरचन्द्राख्यो, द्राक्षोपमवचस्ततिः ॥२॥ कौमुद्यां बाह्यमुद्यानमन्येद्युः सपुरे नृपे । सम्प्राप्तेऽशोकदत्तेन, समं मित्रेण सोऽप्यगात् ॥३॥ श्रेष्ठिनः पूर्णभद्रस्य, नन्दिनी बन्दिसङ्कटात् । असावत्रान्तरे दृष्ट्वामोचयत् प्रियदर्शनाम् ॥४॥ तावन्योन्यसमालोकप्रमोदहतमानसौ । छलैकदृष्टेः कन्दर्पपिशाचस्य वशङ्गतौ ॥५॥ स्वं स्वं गृहमथो यातावन्योन्यविरहातुरौ । न रतिं प्रापतुः क्वापि, ‘कामाज्ञा हि सुदुःसहा' ॥६॥ अथ सागरचन्द्रस्य, श्रुत्वा तद् विक्रमाद्भुतम् । पिता चन्दनदासोऽस्मै, सामधाम गिरं जगौ ॥७॥ कृथा मा स्म वृथा वत्स !, विक्रमक्रममन्यदा । यतो न वणिजां क्वापि, शौर्यमौचित्यमञ्चति ॥८॥ अपि चाशोकदत्तोऽयं, छद्मनः सद्म जङ्गमम् । सङ्गमस्तेन नैतेन, समं कार्यः क्वचित् त्वया ॥९॥ ईर्ष्यालुः कोऽपि तातस्य, मिथ्यैवेदं न्यवेदयत् । यन्मे वयस्यो मायावी, मायावीतमना अपि ॥१०॥
20
D:\maha-k.pm5\2nd proof