________________
५०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स स्वच्छप्रकृतिश्चित्ते, चिन्तयन्निति सागरः । तातादेशः प्रमाणं मे, नित्यमित्यवदत् कृती ॥११॥ युग्मम् ॥ चन्दनः पूर्णभद्रश्च, चित्तज्ञौ सुतयोः स्वयोः । कारयाञ्चक्रतुः प्रीत्या, पाणिग्रहमहोत्सवम् ॥१२।। पत्या सागरचन्द्रेण, तुल्येन प्रियदर्शना । लक्ष्मी रायणेनेव, प्रीता नीता कृतार्थताम् ॥१३॥ प्रियेऽन्या बहिर्याते, सति तद्धामगामिना । प्रार्थिताऽशोकदत्तेन, त्यक्तलज्जेन साऽवदत् ॥१४।। त्वं मायातः समायातः, किमु रे ! मम मन्दिरे ? । तुच्छ ! तद् गच्छ भर्ता मे, स्वच्छस्त्वां मित्रमिच्छति ॥१५॥ अथोद्विग्नो विनिर्गत्य, सागराग्रेऽब्रवीदिदम् । पत्न्यास्ते दुश्चरित्रायाः, सङ्कटेऽद्यापातं सखे ! ॥१६।। श्रुत्वे सागरोऽप्यूचे, क्षणं विकृतमानसः । सखे ! न खेदस्ते दक्ष !, विधातुमुचितः क्वचित् ॥१७॥ स्नेहानुविद्धयोर्भ्रातरावयोर्मानसक्षतिः । भाविनी नाविनीतायाः, कृते तस्याः कदाचन ॥१८॥ ऋजुप्रकृतिना तेन, स दुष्ट इति भाषितः । कामं मुदितचित्तोऽभूत् , स्वभावोऽयं दुरात्मनाम् ॥१९॥ स्वयोषायामदोषायामपि मित्रगिरा तया । सागरोऽभूद् गतप्रेमा, ज्ञापयामास तां न तु ॥२०॥ प्रियदर्शनया साकं, मृत्वा कालेन सागरः । जम्बूद्वीपेऽत्र भरतक्षेत्र॰ दक्षिणेऽभवत् ।।२१।। तृतीयारेऽवसर्पिण्यां, सिन्धु-गङ्गान्तरक्षितौ । शेषे पल्योपमाष्टांशे, युग्मधर्मा रविच्छविः ॥२२॥ युग्मम् ।। माययाऽशोकदत्तोऽपि, निष्पन्नोऽत्रैव कुञ्जरः ।
चतुर्दन्तः सितच्छायकायस्तं दृष्टवान् भ्रमन् ॥२३।। १. तयोःस्तयोः वता० ॥ २. "न्दिरम् ? खंता० ॥ ३. सक्षितिः वता० ॥
20
D:\maha-k.pm5\2nd proof