________________
तृतीयः सर्गः ]
आविर्भूताद्भुतप्रीतिः, सकरेणुः करेण तम् । आलिङ्ग्याऽऽरोपयामास, निजस्कन्धे सविस्मयम् ॥२४॥ अयं मया क्वचिद् दृष्ट, इत्यन्योन्यं सचिन्तयोः । तयोः स्मृतिपथं यातः, स्नेहः पूर्वभवोद्भवः ॥२५॥ प्राग्भवस्मरणाज्ज्ञातनीतिः स्कन्धाधिरोपितः । करिणा तेन स ख्यातिं लेभे विमलवाहनः ||२६|| प्रभावादवसर्पिण्याः, कालेऽत्र ममताजुषाम् । न ददुर्वाञ्छितं कल्पतरवः स्तोकतां गताः ॥२७॥ ममायमिति कल्पद्रुविषये कलहाकुलाः । अभवन् मार्गगाः सर्वे, तस्य हाकारदण्डतः ॥२८॥ तस्य चन्द्रयशोनाम्नि, कलत्रेऽभवदन्यदा । धनुरष्टशतीतुङ्गं, प्राच्यसंहननं शिति ॥२९॥ विलुप्तसङ्ख्यपूर्वायुः, स्त्री-पुंसमिथुनं किल । चक्षुष्माँश्चन्द्रकान्ता चेत्यनयोर्नाम कल्पितम् ॥३०॥ युग्मम् || जरा-रोगौ विना मृत्वा, ततो विमलवाहनः । सुपर्णाख्यकुमारेषु, सुरः समभवन्नवः ॥३१॥ नागलोकेष्वभूच्चन्द्रयशा अपि मृता ततः । अगान्नागकुमारेषु, कुञ्जरोऽपि च्युतस्ततः ॥३२॥ अन्त्यकालेऽथ चक्षुष्मानपि युग्ममजीजनत् । यशस्वी च सुरूपा च चन्द्रकान्ताङ्गसम्भवम् ॥३३॥ चक्षुष्मान् स सुपर्णेषु, मृत्वोत्पेदे महासुरः । चन्द्रकान्ताऽपि नागेषु, समानसमयं किल ॥३४॥ अथो यशस्विनस्तस्य, पितृवत् प्रभुताजुषः । धाल्लङ्घितहाकारनीतिभिर्मिथुनैः स्थितम् ॥३५॥ तच्छासनाय माकारदण्डं चक्रेऽथ स प्रभुः । यथापराधं प्रायुङ्क्त, नीतिद्वयमथ क्रमात् ॥३६॥ अभिचन्द्रोऽभवत् पुत्रः, प्रतिरूपा च कन्यका । गौर - श्यामरुची पत्न्यां, सुरूपायां यशस्विनः ||३७||
D:\maha-k.pm5\ 2nd proof
[ ५१
5
10
15
20
25