________________
10
५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यशस्व्यब्धिकुमारोऽभूत् , सुरूपा त्वस्य वल्लभा । विपद्य सममेवाहिकुमारः समजायत ॥३८॥ पुत्रः प्रसेनजिन्नाम, चक्षुःकान्ता च नन्दनी । अभिचन्द्रस्य जज्ञाते, प्रतिरूपाङ्गसम्भवौ ॥३९।। अभिचन्द्रो विपद्याऽब्धिकुमारेषूदपद्यत । सहैव प्रतिरूपा तु , जज्ञे नागकुमारकः ॥४०॥ पितृवद् युग्मिनां शास्ति, प्रसेनजिति कुर्वति । सति हाकार-माकारलङ्घने धाष्टर्यतः पुनः ॥४१॥ धिक्कारनीति निर्माय, निर्मायः क्रमशस्त्रिभिः । दण्डैरमीभिश्चण्डाज्ञो, मिथुनानि शशास सः ॥४२॥ युग्मम् ।। चक्षःकान्ताऽथ तत्कान्ता. मरुदेवं तनद्भवम । सुतामसूत श्रीकान्तां, चेति तद्युग्मजातकौ ।।४३।। मृत्वा प्रसेनजिद् द्वीपकुमारेष्वथ निर्जरः । चक्षुःकान्ताऽथ नागेषु , समं समुदपद्यत ॥४४।। पितृवन्मरुदेवस्य, शासतोऽथ प्रजा निजाः । श्रीकान्तायां सपादाग्रधनुःपञ्चशतोच्छ्यौ ॥४५।। शातकुम्भद्युतिर्नाभिर्मरुदेवा प्रियङ्गरुक् । नाम्नेत्यजायतां पुत्रः, पुत्री च युगजातकौ ॥४६।। युग्मम् ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुरजायत ।। पैतृकादायुषः किञ्चिन्न्यूनमन्यूनपुण्ययोः ॥४७।। प्राप द्वीपकुमारत्वं मरुदेवो विपद्य सः ।
श्रीकान्ता तस्य कान्ता तु , तदा नागकुमारताम् ॥४८॥ [धनसार्थवाहजीवस्य ऋषभतीर्थकृतश्चरितम् ]
अथो विदधतो नाभेर्युग्मिनामनुशसनम् । तृतीयारस्य शेषेषु , पूर्वलक्षेषु केषुचित् ॥४९।।
15
20
25
१. "पा चास्य पाता० ॥
D:\maha-k.pm5\2nd proof