________________
10
तृतीयः सर्गः]
[५३ आयुर्भुक्त्वा त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धतः ॥५०॥ कृष्णाषाढस्य तुर्येऽयुत्तराषाढास्थिते विधौ । कुक्षौ श्रीमरुदेवायाः, स प्रभुः समवातरत् ॥५१॥ विशेषकम् ।। अवतारे प्रभोस्तत्र, पवित्रे भुवनत्रयम् । ध्वस्तध्वान्तं सुखिस्वान्तं, शान्तदुःखमभूत् क्षणम् ॥५२।। वृषभ-सिंह-श्री-दाम-चन्द्रा-ऽऽदित्यान् ध्वजं घटम् । सरो-वाद्धि-विमानानि, रत्नौघ-ज्वलितनाल ॥५३।। एतान् लोकोत्तरस्फूर्तिप्रभावाद्भुतसूचकान् । तदा चतुर्दश स्वप्नान् , मरुदेवी व्यलोकयत् ॥५४॥ युग्मम् ॥ अथ प्रातः प्रबुद्धाऽसौ नाभेः स्वप्नानचीकथत् । सोऽप्युवाचेति पुत्रस्ते, भावी कुलकरोत्तमः ॥५५॥ अथाऽऽसनप्रकम्पेन, विज्ञायावतरं प्रभोः । समं समन्तात् तत्रैत्य, स्वप्नार्थं वज्रिणो जगुः ॥५६।। मरुदेवी नमस्कृत्य, ततः सर्वे सुरेश्वराः । जग्मुनिजं निजं स्थानममन्दानन्दमेदुराः ॥५७।। निधानं रत्नगर्भेव, बिभ्राणा गर्भमद्भुतम् । दिनेषु परिपूर्णेषु , श्यामचैत्राष्टमीदिने ॥५८।। उत्तराषाढया युक्ते, विधावुच्चैः शुभग्रहैः । देवी युगलधर्माणं, सुतरत्नमसूत सा ॥५९॥ युग्मम् ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि । जगत्रयेऽपि तेजोऽभूदनदद् दिवि दुन्दुभिः ॥६०।। पीठकम्पा-ऽवधिज्ञानाज्ज्ञात्वाऽऽदिजिनजन्म तत् । अष्टाधोलोकवासिन्यः, समीयुदिक्कुमारिकाः ॥६१।।
15
१. सम्भवम् खंता० ॥ २. "ढचतुर्थेऽयु खंता० पाता० ॥ ३. रुदेवा व्य' वता० ॥ ४. रुदेवां न० वता० ॥ ५. 'ढनक्षत्रे, विधा खंता० ॥
D:\maha-k.pm5\2nd proof