________________
५४]
10
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् भोगङ्करा भोगवती, तोयधाराऽप्यनिन्दिता । सुभोगा पुष्पमाला च, विचित्रा भोगमालिनी ॥६२॥ आभिनत्वा च नुत्वा च, भेतव्यं नेत्युदीर्य च । हेतुरागमने स्वामिमातुस्तथ्यमकथ्यत ॥६३।। युग्मम् ॥ उत्तरस्यां दिशि स्तम्भसहस्रं प्राङ्मुखं च ताः । वातपूतद्विगव्यूति, व्यधुः सूतिगृहं बृहत् ॥६४॥ उत्तंसाम्जभृङ्गलिध्वानस्थानप्रदानतः । प्रीता गीतानि गायन्त्यो, नत्वा प्रभुमभि स्थिताः ॥६५॥ एत्य कम्पासना ज्ञात्वा, मेरुस्थाः स्वर्गलोकगाः । प्रणेमुर्दिक्कुमार्योऽष्टौ, जिनं तज्जननीमपि ॥६६।। मेघङ्करा वत्समित्रा, सुवत्सा मेघमालिनी । सुमेघा मेघमाला च, वारिषेणा बलाहिका ॥६७॥ क्लृप्ताम्बुदा मुदा हृत्वा, रेणुं सुरभिवारिणा । आयोजनं ततः पुष्पैर्वृष्टिं पञ्चविधैर्व्यधुः ॥६८।। युग्मम् ॥ अभ्येत्य दिक्कुमार्योऽष्ट, पौरस्त्यरुचकाद्रिगाः । नेमुर्जिनं तदम्बां च, करस्फुरितदर्पणाः ॥६९।। नन्दा नन्दोत्तराऽऽनन्दा, वैजयन्त्यपराजिता । जयन्ती विजगा चैव, किञ्चान्या नन्दिवर्द्धना ॥७०॥ आयाता दिक्कुमार्योष्टावपाच्यरुचकाद्रिगाः । नत्वा मात्रा समं नाथं, सभृङ्गाराः सगीतयः ॥७१।। लक्ष्मीवती चित्रगुप्ता, समाहारा वसुन्धरा । सुप्रबद्धा शेषवती, सुप्रदत्ता यशोधरा ॥७२॥ अथ प्रतीचीरुचकादुपेत्याष्टौ कुमारिकाः । नत्वाऽर्हन्तं च देवी, च, तस्थुळजनपाणयः ॥७३।।
15
१. नात् ज्ञा' खंता० पाता० ॥ २. लाहका खंता० ॥ ३. ऽष्टौ, पौ खंता० ॥ ४. प्रबुद्धा खंता० पाता० ॥
D:\maha-k.pm5\2nd proof