________________
5
10
15
20
25
४२ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तथाकृतेऽथ तेनैषा, तस्मिन्नेवानुरागिणी ।
मृत्वा तस्याऽभवद् देवी, प्रेमप्रात्रं स्वयम्प्रभा ||३७१॥ भोगान् भुक्त्वा तया साकं, साकम्पोऽथ दिवश्च्युतः । क्षेत्रे महाविदेहेऽभूल्लोहार्गलपुरप्रभोः ॥३७२|| सुतः सुवर्णजङ्घस्य, प्रतापजितभास्वतः ।
स लक्ष्मीकुक्षिमाणिक्यं, वज्रजङ्घ इति श्रुतः ||३७३|| युग्मम् ॥ नगर्यां पुण्डरीकियां, च्युत्वा साऽपि स्वयम्प्रभा । चक्रिणो वज्रसेनस्य, श्रीमतीति सुताऽभवत् ॥३७४॥ अन्यदा प्रमदोद्याने, क्रीडन्ती समुपागतम् ।
मुनिं केवलिनं वीक्ष्य, वन्दितं देव-दानवैः || ३७५।। जातजातिस्मृतिर्ज्ञात्वा, सा सर्वं पूर्वचेष्टितम् । धात्रेयीं पण्डितामाह, रहो विश्वासभाजनम् ॥३७६॥ युग्मम् ॥ पुरा ममाऽऽसीदीशानकल्पे हृदयवल्लभः । ललिताङ्ग इति ख्यातस्तत्प्रियाऽहं स्वयम्प्रभा || ३७७।। स च मच्च्यवनात् पूर्वं च्युत क्वाप्यभवद् भुवि । न ज्ञायते ततस्तस्य, प्रयत्नं प्राप्तये कुरु ॥ ३७८ ॥ पण्डिताऽपि श्रुताशेषवृत्तान्तानुगतं पटम् । लेखयित्वाऽङ्गणोपान्ते वज्रसेनस्य चक्रिणः ||३७९॥ सेवागतानां सर्वेषां, कुमाराणामदर्शयत् । दृष्ट्वैतद् वज्रजङ्घोऽपि, जातजातिस्मृतिर्जगौ ॥३८०॥ मम पूर्वभवः सोऽयं, पण्डिते ! लेखित: कुत: ? । दिव्यज्ञानवता केन, कथितं वा तवाग्रतः ? ||३८१|| एकैकशस्तया पृष्टः, पर्वतादिविनिर्णयम् ।
पूर्वदृष्टानुसारेण, स यथाभिधमभ्यधात् ॥३८२॥
अथोत्सुकतया वृत्तमनाख्यायाऽपि पण्डिता । श्रीमत्याः पुरतो गत्वा, तद् वृत्तान्तं व्यजिज्ञपत् ॥ ३८३|| १. सल्लक्ष्मी खंता० ॥
D:\maha-k.pm5\ 2nd proof