________________
द्वितीयः सर्गः]
[४१ दुःखिनः सन्ति भूयांसो, भवेऽस्मिन् भगवन् ! जनाः । मत्तस्तु मन्दभाग्यायाः, कोऽपि दुःखाधिकोऽस्ति किम् ? ॥३५८।। "अथो युगन्धरः प्राह, केवलज्ञानभास्करः । वत्से ! धत्से मुधा दुःखाद्वैतवैतण्डिकं मनः ॥३५९॥ दुःखानि परतः सन्तु , तावन्नरकवासिनाम् । श्रुतमात्राणि भिन्दन्ति, हृदयं यानि देहिनाम् ॥३६०॥ परं प्रत्यक्षमेवैते, वनेऽपि सुखमानिनः । विनाऽपराधं बध्यन्ते, पशवः पश्य पापिभिः ॥३६१॥ दृढं कशाभिस्ताड्यन्ते, कर्कशाभिस्तुरङ्गमाः । बध्यन्ते चाद्भतप्राणबन्धुरा अपि सिन्धुराः ॥३६२॥ परद्रव्य-परद्रोहपराः पश्य नरा नृपैः । क्रन्दन्तः करुणं मारैर्निहन्यन्ते नवैर्नवैः ॥३६३॥ स्वस्वामिभावसम्बन्धमुमुरैर्मर्मदाहिभिः । वत्से ! स्वर्गेऽपि ताप्यन्ते, मरुतोऽविरतोत्सवाः ॥३६४॥ विलोक्यते न तल्लोके, प्रदेशो निरुपप्लवः । आराध्यते न चेदेष, धर्मः शर्मनिबन्धनम् ॥३६५॥ संसारदुःखसम्मर्दकर्दमे पततामयम् । धर्म एव भुजालम्बं, दत्ते नान्यः शरीरिणाम् ॥३६६॥ आराद्धश्च विराद्धश्च, चक्रवर्तीव देहिनाम् । धर्मस्तुष्टश्च रुष्टश्च, सुखं दुःखं च यच्छति ॥३६७॥ सुखाय वत्से ! तद् वाञ्छा, यदि ते विद्यते हृदि । आराध्यतां ततो धर्मः, कल्पनाकल्पपादपः" ॥३६८॥ उपदेशमिति श्रुत्वा, मुनेस्त्रैलोक्यदर्शिनः । अनुज्ञां चास्य सम्प्राप्य, दुःखौघक्षयकाङ्क्षया ॥३६९।। उद्विग्ना निजदेहेऽपि, गृहीतानशनाऽधुना । वर्ततेऽस्यास्ततो गत्वा, स्वं रूपं दर्शय स्वयम् ॥३७०।। युग्मम् ॥
25
१. सन्ति, ता' खंता० ॥
D:\maha-k.pm5\2nd proof