________________
४०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रव्रज्यां दिनमप्येकं, प्राप्यानन्यमना जनः । मोक्षं यदपि नाप्नोति, कामं वैमानिको भवेत् ॥३४५॥ इत्यमात्योपदेशेन, महाबलमहीपतिः । जग्राह दीक्षामाचार्यसमीपमुपजग्मिवान् ॥३४६॥ युग्मम् ।। असावनशनं कृत्वा, दिनद्वाविंशतिं ततः । ईशानकल्पे देवोऽभूद् , विमाने श्रीप्रभाभिधे ॥३४७।। नाम्नाऽथ ललिताङ्गस्य, तत्र वैषयिकं सुखम् । भुञ्जानस्यानन्यदाऽच्योष्ट, प्रिया तस्य स्वयम्प्रभा ॥३४८।। हा प्रिये ! देहि मे वाचं, प्रलपन्नित्यथोदितः । स्वसामानिकदेवेन, सौहार्दाद दृढधर्मणा ॥३४९।। यः पुरा मित्र ! मन्त्रीशः, स्वयम्बुद्धस्तवाभवत् । सोऽहं तव वियोगे, प्रव्रज्यैनां श्रितः श्रियम् ॥३५०।। अहं त्वयि ततः स्नेहाद् , विज्ञायावधिनाऽधुना । पुनः स्वयम्प्रभामन्यां, भाविनी कथयामि ते ॥३५१।। बभूव धातकीखण्डप्राग्विदेहैकमण्डने । नागिलाख्यो गृहपतिर्नन्दिग्रामेऽतिदुर्गतः ॥३५२॥ तस्य नागश्रियां पत्न्यां, पुत्रीषट्कादनन्तरम् । सुताऽभून्मर्त्यलोकेऽपि, नरकमेव सप्तमी ॥३५३।। एतस्यां जातमात्रायाममात्रोद्विग्नमानसः । नगरान्निरगाद् दूरं, विरागान्नागिलः किल ॥३५४॥ दुर्भगत्वेन पुत्र्यास्तु , नाम्नोऽप्यकरणादथ । निर्नामिकेत्यभूत् तस्याः, प्रसिद्धिर्जनिता जनैः ॥३५५॥ सा वद्धिष्णुः क्रमेणाथ, समं दारिद्य्कर्मणा । अगमद् दारुभारार्थं, नभस्तिलकपर्वते ॥३५६।। युगन्धरमुनि तत्र, सुरा-ऽसुरनमस्कृतम् ।
दृष्ट्वा नत्वाऽथ तद्व्याख्यां, श्रुत्वा संवेगतो जगौ ॥३५७।। १. दिनान् द्वा' खंतासं० ॥ २. दृढवर्मणा खंता० पाता० ॥ ३. भामेना, भावि खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof