________________
द्वितीयः सर्गः ]
चन्द्राकान्ताङ्गसम्भूतो, जज्ञे नाम्ना महाबलः ।
अङ्गावगणितानङ्ग, शृङ्गार इव मूर्तिमान् ॥३३१|| विशेषकम् ।। राज्यं महाबलायाथ, दत्त्वा शतबलो नृपः । दीक्षां गृहीत्वा कृत्वा च तपांसि दिवमासदत् ॥३३२॥ अथो महाबलः क्ष्माभृद्, यौवनोन्माददुर्धरः । अज्ञातधर्मा कर्माणि, निर्ममे स यथारुचि ॥३३३|| महाबल महीपालमन्यदा सदसि स्थितम् । निर्भरस्फीतसङ्गीतरसनिर्मग्नमानसम् ॥३३४॥ मन्त्रीशो धर्मतत्त्वज्ञः, स्वयम्बुद्धोऽभिधानतः । वैराग्यवासनाविष्टमभाषिष्ट विशिष्टधीः ||३३५॥ युग्मम् ॥ अस्तु स्वादुफलश्रीकः, कदलीद्रुरिवैकदा । विनैकं पुण्यबीजं तु, जन्तुरुच्छेदमृच्छति ॥३३६॥ तत् तवापि श्रियां मूलं, त्यक्त्वा धर्मं कुलप्रभो ! । इत्थं न विषयग्रामो, भोक्तुं तत्त्वज्ञ ! युज्यते ॥३३७|| अभ्यधाद् भूपतिर्मन्त्रिन् !, किमप्रस्तुतमुच्यते ? । उवाच सचिवः स्वामिन्!, श्रूयतामत्र कारणम् ||३३८|| शुचिभिः सचिवैः स्वामिन्!, कुशलोदर्ककर्कशम् । अप्रस्तुतमपि प्रायो, हितं वाच्यं हितैषिभिः ॥ ३३९॥ यदद्य नन्दनोद्याने, ज्ञानातिशयशालिनौ । भवदायुर्मया पृष्टौ, चारणौ वाचमूचतुः ॥३४०॥ मासमात्रं भवद्भर्तुरायुः शेषमिति प्रभो ! । विज्ञ ! विज्ञप्यसे बाढमतस्त्वमिति मा मुहः || ३४१ || ऊचे महाबलः साधु, साधुबुद्धिबृहस्पते ! | स्वयम्बुद्ध ! गुरुस्त्वं मे, त्वं मन्त्री त्वं च बान्धवः ||३४२ ॥ यदित्थं पातकाम्भोधिपातुकं प्रति सम्प्रति । मामन्धमिव निर्बन्धाद्, भुजालम्बं प्रयच्छसि ॥३४३|| परं समीपमापन्ने, मृत्यौ कृत्यं करोमि किम् ? ।
मूर्ध्नि दत्तपदे शत्रौ, विक्रमः क्रमतां कुतः ? ॥३४४॥ १. 'स्फीतिस' वता० ॥ २ °मिकु' पाता० खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ३९
5
10
111
15
20
25