________________
३८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रागादिविजयी देवः, सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च, धर्मः सम्यक्त्वमुच्यते" ॥३१८॥ तत् तवायमलङ्कारो, युज्यते पुरुषोत्तम ! । आधातुं हृदये श्रीमत्सम्यक्त्वं कौस्तुभ: शुभः ॥३१९।। ऊचे धनोऽथ भगवन् ! प्रतिपन्नमिदं मया । न हि श्रियं समायान्ती, पदेन प्रेरयेद् बुधः ॥३२०॥ गुरूनथ नमस्कृत्य, प्रीतः सम्यक्त्वसम्पदा । तां क्षपां क्षपयामास, निजावासं गतो धनः ॥३२१।। प्रगेऽथ माणिभद्रेण, विज्ञप्तः, सुहृदा धनः । इयं प्रावृडतिक्रान्ता, निशेवोद्भासिभास्करा ॥३२२॥ विमुक्तं धनुरिन्द्रेण, गृहीतं वसुधाधिपैः । नभस्त्यक्तं घनैः श्लिष्टं, जिगीषुबलधूलिभिः ॥३२३।। कालेऽत्र प्रसरन्त्युच्चैर्व्यवसायिमनोरथाः । प्रभो ! प्रतिदिशं प्रौढाः, सहस्रांशोरिवांशवः ॥३२४।। एतदाकर्ण्य सार्थेशः, समुल्लङ्घयाटवीमिमाम् । गुरूणां गौरवं कुर्वन् , वसन्तपुरमाययौ ॥३२५।। तत्र भूपतिसत्कारद्विगुणोत्साहितो धनः । विक्रीय स्वीयभाण्डानि, प्रतिभाण्डान्युपाददे ।।३२६।। तत्र स्थितमथापृच्छ्य, धर्मघोषमुनीश्वरम् ।
क्षितिप्रतिष्ठितं प्राप, कृतार्थः सार्थपः पुरम् ॥३२७।। हुए अथ कालेन पूर्णायुरुत्तरेषु कुरुष्वयम् ।
कल्पद्रुपूर्णसङ्कल्पो, जग्मिवान् युग्मधर्मताम् ॥३२८।। ततश्च प्रथमे कल्पे, भूत्वाऽसौ भासुरः सुरः । अपरेषु विदेहेषु, विजये गन्धिलाभिधे ॥३२९।। वैताढ्यशैले गन्धारदेशे गन्धसमृद्धके ।
पुरे शतबलक्ष्माभृत्पुत्रो विद्याधरान्वये ॥३३०॥ १. ष्वसौ खंता० पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof