________________
द्वितीयः सर्गः ]
अन्यदा वन्यदावाग्निप्रतापस्यास्य भूभुजः । चक्रमायुधशालायामाविरासीत् सुदुःसहम् ॥३०५॥ चक्रस्यास्य प्रभावेण, द्विगुणीकृततेजसा । अभयङ्करभूपेन, षट्खण्डा साधिता मही ||३०६ || न नाम भूभृतामेव, सार्वभौमपदं नृपः । महात्मनामपि प्राप, गुणैर्लोकोत्तरैरयम् ॥३०७॥ अथ क्रमेण सम्प्राप्य, व्रतसाम्राज्यसम्पदम् । पदं लोकोत्तरं लब्धा, चक्रवर्त्यभयङ्करः ॥ ३०८||
§§ सार्थवाह ! श्रियो मूलमालवालं यशस्तरोः ।
व्रतं परोपकाराख्यं, मुनयस्तदिदं विदुः || ३०९ ॥ न शोच्यस्तत् त्वयाऽऽप्यात्मा, पाप इत्यमलाशय ! । उपकारपरा बुद्धिः, शुद्धां ब्रूते तवायतिम् ॥३१०॥ उपयोगः परं कश्चिद्, यन्नास्मत्तोऽभवत् तव । सार्थवाह ! क्रियाहीनं, तन्मनोऽतिदुनोति नः ॥३११॥ तन्महात्मँस्तवात्यर्थं, सर्वथाऽप्युपकुर्वतः । तत्त्वोपदेशमात्रेण, वयमप्युपकुर्महे ॥३१२॥ "संसारे जन्तवः सन्ति, मिथ्यात्वमयनिद्रया । हिता - ऽहितमजानन्तो, जीवन्तोऽपि मृता इव ॥३१३॥ मिथ्यात्वतटिनीपूरप्लावितः सर्वथा जनः । रयाद्दुस्तरसंसारपारावारे पतत्ययम् ॥३१४॥
तन्मिथ्यात्वमयं ध्वान्तं, सद्गतिस्खलनक्षमम् जिघांसता जनेनोच्चैः, सेव्यः सम्यक्त्व भास्करः ॥३१५॥ स्मेरं सम्यक्त्वसूर्येण, निगूढगुणगौरवम् । उत्तंसयति मुक्ति श्रीरजस्त्रं पद्मवज्जनम् ॥३१६॥ सम्यक्त्वकौमुदीस्वादचकोराणां शरीरिणाम् । पुरोवर्तिनि मिथ्यात्वविषे दृष्टिर्विरज्यते ॥३१७॥
D:\maha-k.pm 5 \ 2nd proof
[ ३७
5
10
15
20
25