________________
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अस्मद्भर्तुरिदं सैन्यमरिकेशरिभूभुजः । स्वामिशून्यं प्रभावस्मिन्नपुत्रे त्रिदिवं गते ॥२९२॥ आराध्य विधिवद् गोत्रदेवतामपराजिताम् । ततस्तदुपदेशेन, भवन्तमुपतिष्ठते ।।२९३।। युग्मम् ॥ राज्यश्रियस्तदेतस्या, भव त्वं वल्लभो विभो ! । रम्याऽपि हि श्रियं धत्ते, न विनेन्दुं कुमुद्वती ॥२९४॥ प्रज्ञालोकाभिधानस्य, मन्त्रिणः क्रमिकस्य मे । अभ्यर्थनामिमां नाथ !, नान्यथा कर्तुमर्हसि ॥२९५।। अथो निकटवर्तिन्या, स्वयं देवतया तया । अभ्यषिच्यत राजेन्दुर्निवेश्य कनकासने ॥२९६।। तस्योत्तमाङ्गे शुशुभे, सितमातपवारणम् । पूर्वक्षोणिभृतः शृङ्गे, सितांशोरिव मण्डलम् ॥२९७।। कुमारीमपि तामस्मै, मङ्गलस्नानपूर्वकम् । दत्त्वा देवी क्षितीशाय, क्षणेनाथ तिरोदधे ॥२९८॥ अथाऽरिकेशरिक्ष्मापपुरं लक्ष्मीपुराभिधम् । तया वनितया साकं, प्रविवेश विशाम्पतिः ॥२९९।। तल्लक्ष्मीपुरसाम्राज्यमभ्युपेत्याऽभयङ्करः । पाथोद इव पाथोधिपाथः पृथ्वीमतर्पयत् ॥३००।। ततः सिंहपराधीशः स्वयमेत्य प्रमोदवान । तामनङ्गवती पुत्री, भूभुजा पर्यणीनयत् ॥३०१॥ भूचराः खेचराश्चान्ये, कन्यादिभिरुपायनैः । भक्तिपहीभवच्चित्तास्तं भूभुजमपूपुजन् ।।३०२।। विद्याधरेश्वरः सोऽपि, देवतादत्तवैभवः । सोऽपि पुष्पपुराधीशः, स चापि घनवाहनः ॥३०३।। नृपं परेऽपि सामन्ताः, समन्तादेत्य सम्मदात् ।
रत्न-वाजि-गजप्रायैः, प्राभृतैरुपतस्थिरे ॥३०४॥ युग्मम् ।। १. प्रायप्राभृ पाता० ॥
20
25
D:\maha-k.pm5\2nd proof